SanskritLearners.Club

Where we Learn from Each Other

Change of Mind

Source - Sanskrit Chandamama |

| July |

| 1984

Vikrama is one of the very famous historic king who ruled the present Ujjain of Madhya Pradesh in India. These series of stories about his smartness in resolving complex problems according to Dharmic principles are worth reading. These stories are somewhat lengthier compared to other short stories. I suggest you to think the answer by yourself for the questions asked by the Ghost, before reading, how Vikrama the King resolves the knot.

बुद्धिपरिवर्तनम्

अन्यत्र कुत्रापि गन्तुम् अशक्तं सर्वदा वृक्षशाखायां लम्बमानं वेतालाविष्टं शवं पुनरपि स्कन्धे आरोप्य त्रिविक्रमः मौनेन श्मशानमार्गम् अनुसृतवान्। तदा शवे स्थितः वेतालः उक्तवान् – अये महाराज! भवान् एतादृशे मध्यरात्रे भयङ्करे श्मशानमार्गे गच्छन् अस्ति। भवतः प्रयत्नः कदाचित् सपलः अपि भवेत्। किन्तु फलप्राप्तिसमये भवतः मनः एव परिवर्तितम् अपि भवेत्। कदाचित् महाराजाः अपि अल्पानां विमर्शतः भीताः पराक्रमेण सम्पादितं राज्यादिकं त्यक्त्वा पलायनं कुर्वन्ति। हस्तप्राप्तं विजयं तिरस्कुर्वन्ति। भवान् अपि तथा न आचरति इत्यत्र कः विश्वासः? उदाहरणार्थं कीर्तिसेनमहाराजस्य कथां वदामि इति। अनन्तरं कथा आरब्धा।

उज्वलनामके देशे गिरिपुरग्रामे मैथिली वासन्तिका इति भगिनीद्वयम् आसीत्। बाल्ये एव मातापितृविहीनं तत् भगिनीद्वयं पितामही एव पोषितवती। एषा पितामही अपि कदाचित् कालवशात् दिवङ्गता। मैथिली वासन्तिका उभे अपि सुन्दर्यौ एव। किन्तु विद्यायां मौथिली एव निपुणा। वासन्तिका तु गाने बहु प्रवीणा।

एकदा वृष्टयभावात् उज्वलदेशे क्षामः समुत्पन्नः। राजा विनयवर्मा प्रजानां हितार्थं यथाशक्ति व्यवस्थां कृतवान्। सर्वदा क्षामपरिहारकार्ये एव सः निमग्नः भवति स्म। तदानीम् एव उज्वलदेशस्य बलहीनपरिस्थितेः दुर्लाभं स्वीकृत्य पार्श्वस्थ-वरालिदेशस्य राजा कीर्तिसेनः आक्रमणं कृतवान्। विनयवर्मा तु यथाशक्ति युद्धं कृत्वा अपि पराजितः। कीर्तिसेनः राजधानीम् आक्रम्य राजानं विनयवर्माणं कारागारे स्थापितवान्।

कीर्तिसेनः अपि गुणवान्। सः उज्वलदेशस्य क्षामपरिस्थितिं दृष्ट्वा खिन्नः। इदानीम् एतस्य रक्षकः अहम् एव। अतः कष्टपरिहारः अपि मम एव कर्तव्यम् इति सः चिन्तितवान्। अतः कैश्चित् सैनिकैः च सह देशे सर्वत्र गत्वा योग्यसाहाय्यं कर्तुम् आरब्धवान्। कीर्तिसेनः एवं पर्यटनं कुर्वन् गिरिपुरग्रामम् आगतवान्। तद्दिने एव वासन्तिका कुत्रापि न दृष्टा। प्रतिदिनम् एव अद्यापि जलम् आनेतुं नदीं गता सा न प्रत्यागता। मैथिली अनुजाम् अन्वेष्टुं प्रस्थिता। वासन्तिका कुत्रापि न दृष्टा। किन्तु तया नीतः घटः नदीतीरे लब्धः। घटं स्थापयित्वा नदीं गतां वासन्तिकाम् एकः दृष्टवान् आसीत्।

नदी शुष्का आसीत्। केवलं तत्र तत्र गर्तेषु जलं तिष्ठति स्म। ततः जलम् आनेतव्यम् आसीत्। एवम् जलान्वेषणमग्नां वासन्तिकां अस्मिन्नेव मार्गे गच्छन्तं कीर्तिसेनं च वयं दृष्टावन्तः इति केचन उक्तवन्तः। कीर्तिसेनः एव वासन्तिकाम् अपहृतवान् स्यात् इति संशयम् अपि प्रकटितवन्तः। एतत् श्रुत्वा मौथिली व्यथिता। सा साक्षात् राजधानीं गतवती। राजा सभायाम् आसीत्। सा अपि साक्षात् सभां प्रविष्टवती।

कीर्तिसेनः प्रवृत्तं सर्वं श्रुत्वा उक्तवान् चिन्ता मास्तु भवत्याः भगिनीम् अहम् अन्विष्य ददामि। कस्यापि उपरि भवत्याः संशयः अस्ति वा इति। एकस्य उपरि मम संशयः अस्ति इति उक्तवती मैथिली। कः सः इति पृष्टावान् कीर्तिसेनः। यः असहायाम् एकां अबलाम् अपहृत्य आगतवान् सः एव मम संशयविषयः इति मैथिली उक्तवती। कीर्तिसेनः आश्चर्यं प्रकटयन् उक्तवान् भवती किमर्थं व्याजोक्त्या कथयति? सधैर्यं विषयं वदतु।

वदामि भोः सर्वं वदामि। सर्वम् अपि सोढुं सिद्धा भूत्वा एव आगतवती अहम्। भवान् मां शिक्षयेत् इति भीतिः अपि नास्ति मम। भवतः उपरि एव मम संशयः इति कोपेन उक्तवती मैथिली। चकितः कीर्तिसेनः कोपेन पृष्टवान् मम विषये संशयः?! मैथिली दृढस्वरेण उक्तवती – आम्! भवान् कुपितः भवति इति अहम् पूर्वम् एव ज्ञातवती। भवतः उपरि केवलं मम एकस्याः संशयः न। गिरिपुरवासिनः सर्वे अपि संशयं प्रकटितवन्तः। दीनावस्थायां स्थितां राजलक्ष्मीम् एव भवान् वशीकृतवान्। एतादृशः धर्मविधुरः भवान् सुन्दरीं तरुणीम् एकाकिनीं न अपहरति इत्यत्र कः विश्वासः? भवान् यदा नदीतीरे गच्छति स्म तदा एव सा अपि अदृश्यतां गता इति।

मैथिल्याः वचनं युक्तियुक्तम् आसीत्। सप्रमाणम् आसीत्। तर्कसहितम् आसीत्। एतादृशं वचनं असत्यम् इति प्रतिपादयितुं कष्टं किल? राजसभायां सर्वेषां पुरतः किम् उत्तरं दातव्यम् इति कीर्तिसेनः न ज्ञातवान्। मैथिल्याः वचने सत्यम् अस्तीति सभ्याः भ्रान्ताः सन्ति। एवं स्थिते सत्यम् उक्तं चेत् अपि न प्रयोजनम्! सभ्याः राजभीत्या उक्तं तूष्णिं शृणुयुः। किन्तु हृदयपूर्वकं न अङ्गीकुर्युः एव।

किञ्चित्कालं चिन्तयित्वा कीर्तिसेनः मौथिलीम् उक्तवान् भवत्याः भगिनी मया न अपहृता इति देवसाक्षितया वदामि। तस्याः अन्वेषणं मम आद्यं कर्तव्यम्। भवती अत्र विश्वासं स्थापयतु इति। मैथिली गिरिपुरं प्रत्यागता।

मैथिली यदा गृहं प्रत्यागतवती तदा वासन्तिका गृहे एव आसीत्। सा सङ्गीतकलायाः सहपाठिनं देवालये परिणीय तेन सह आगतवती आसीत्। मैथिल्या पृष्टा वासन्तिका उक्तवती – यदि विवाहविषयम् अहं पूर्वम् एव वदामि तर्हि भवती न अङ्गीकरोति स्म। अपि च भवत्याः अपेक्षया पूर्वम् एव जायमानस्य मदीयविवाहस्य विषयं वक्तुम् अपि मम लज्जा आसीत्। सहपाठिनः पितामही वृद्धा अस्वस्था च। सा मरणतः पूर्वं पौत्रस्य विवाहं द्रष्टुम् इच्छन्ती विवाहार्थम् आग्रहं करोति स्म। अतः मया एवं कृतम् इति।

मैथिली भगिनीम् उक्तवती – सहोदरि! भवती न बाला अपि तु प्रौढा। अतः विवाहविषये भवती स्वतन्त्रा एव। भवत्या यत्कृता तद्विषये किञ्चित् अपि दोषं न पश्यामि। एषः सहपाठी अपि भवत्याः अनुरूपः एव अस्ति। भवतीं भवत्याः पतिं च दृष्ट्वा मम महान् सन्तोषः। नूतनवधूवरयोः मम शुभाशिषः। मैथिली नूतनवधूवरयोः आशिषम् उक्तवा राजधानीं गतवती। भगिन्याः वृत्तान्तम् उक्तवा कीर्तिसेनं क्षमां याचितवती।

कीर्तिसेनः हसन् उक्तवान् – अत्र क्षमाप्रार्थनायाः प्रश्नः एव नास्ति। अहम् इदानीं भवतां देशं त्यक्त्वा गन्तुं निश्चितवान्। विनयवर्मणे राज्यं प्रत्यर्पयामि। भवती माम् यत् उपकृतवती तत् भवती अपि न जानाति। भवती दीर्घायुष्मती भवतु इति। अनन्तरम् अमूल्यानि रत्नाभरणादीनि दत्वा तां प्रेषितवान्। तद्दिने एव विनयवर्माणं वन्धनतः मोचयित्वा तस्मै राज्यं प्रत्यर्पितवान्। तेन सह स्नेहसन्धिः सम्पाद्य शीघ्रम् एव स्वराज्यं गतवान्।

वेतालः एवं कथां समाप्य पृष्टवान् – महाराज! कीर्तिसेनस्य मनसि यत् परिवर्तनं जातं तत्र किं कारणम्? पूर्वापरयोः विषये विचार्यमाणे तस्य व्यवहारः विचित्रः इव भाति किल? राजसभायाम् अपमानं कृतवतीं मैथिलीं परिणेतुं सः किमर्थं निश्चितवान्? पुनश्च किमर्थं तं विषयं परित्यक्तवान्? अन्यच्च विचित्रम् शौर्येण सम्पादितं राज्यम् एव परित्यक्तवान्! एतत् अविवेकं विना किम् अन्यत्? एतेषां सन्देहानाम् उत्तरं यदि भवान् न वदति तर्हि भवतः शिरः सहस्रधा भग्नं भविष्यति इति।

तदा त्रिविक्रमः उक्तवान् – कीर्तिसेनस्य गुणपरिवर्तने आश्चर्यं किमपि नास्ति। गुणानुरूपः तस्य व्यवहारः अस्ति। दुष्टं बुद्धिहीनं च राजानम् आक्रम्य शत्रुराजः यदि समर्थरीत्या शासनं करोति तर्हि शत्रुराजस्य विषये अपि प्रजानां प्रीतिगौरवादयः वर्धन्ते। एतत् तु सर्वत्र समानम्। किन्तु कीर्तिसेनेन जितः उज्वलदेशस्य राजा विनयवर्मा न दुष्टः न वा बुद्धिहीनः। राज्यस्य उपरि आपतितं कष्टं निवारयितुं यथाशक्ति सः प्रयत्नं कुर्वन् आसीत्। अतः एव जनप्रियः अपि आसीत्। एतादृशं राजानं सिंहासनात् भ्रंशयन् पार्श्वदेशस्य राजा कदाऽपि प्रजानां गौरवाभिमानपात्रं न भवति एव।

अवमानयन्ती मैथिली एतं विषयं राजसभायां यदा उक्तवती तदा कीर्तिसेनः ज्ञातवन्। अतः एव सः विनयवर्मणे राज्यं प्रत्यर्पितवान्। एतत् कीर्तिसेनस्य विवेकं राजनीतिचतुरतां च द्योतयति। राजसभायां सधैर्यम् आक्षेपं कुर्वत्याः मैथिल्याः सौन्दर्येण राजा मुग्धः। अतः सः तां परिणेतुम् इष्टवान्। अनन्तरम् एषा आलोचना अयुक्ता इति सः ज्ञातवान्। यतः वासन्तिकाविषये संशयम् एव आधारीकृत्य पूर्वापरविवेचनं प्रत्यक्षसाक्षिणं च विना तदा मैथिल्या राज्ञः उपरि अपवादः आरोपितः। अतः एषा मैथिली धृष्टा इति राजा निश्चितवान्। सामान्यस्त्रियः एतादृशी धृष्टता न उचिता। तत्रापि राज्ञ्याः न भवेत् एव। एतेन कारणेन कीर्तिसेनः मैथिल्याः विवाहेच्छां त्यक्तवान्। विनयवर्मणा स्नेहसन्धिः सम्पादितः इति कृत्वा देशद्वये अपि तस्य कीर्तिः इदानीं प्रसृता इति।

एवम् उक्त्वा मौनम् आश्रितवान्। तदा वेतालः झटिति शवसहितः अदृश्य भूत्वा शाकाम् अवलम्बितवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.