एकस्मिन् ग्रामे शङ्करः हरिः इति मित्रद्वयम् आसीत्। शङ्करः धनवान् कृषीवलः च। सः शङ्करः धान्यानां विक्रयणम् अपि करोति स्म। तस्य समीपे राघवः इति एकः लिपिकारः आसीत्। तस्मिन् ग्रामे शङ्करः एव धनवान् सर्वेषाम् आदरपात्रं च आसीत्। अतः तस्य समीपम् अनेके जनाः किमपि कार्यार्थम् आगच्छन्ति। शङ्करस्य पुरतः बहु विनयम् आदरभावं च प्रदर्शयन्ति। किन्तु लिपिकारः राघवः तु यजमानस्य समीपे विनयं न प्रदर्शयति। अपि च यजमानः किमपि पृच्छति चेत् तत्क्षणमेव उत्तरम् दत्वा कार्यमग्नः भवति। एतत् सर्वं शङ्करस्य गृहंगतः हरिः बहुवारं दृष्टवान्।
एकदा हरिः मासद्वयं तीर्थपर्यटनार्थम् गतावान्। सः बहूनि तीर्थक्षेत्राणि दृष्टवान्। सर्वत्र तीर्थेषु स्नानादिकं कृत्वा देवदर्शनं कृतवान्। मासद्वयानन्तरं स्वग्रामं प्रत्यागतवान्। स्वकीय तीर्थयात्रायाः सर्वं वृत्तान्तां शङ्कराय निवेदयितुं तस्य बहु इच्छा आसीत्। अतः सः तद्दिने सायङ्काले एव शङ्करस्य गृहं गतवान्। तस्मिन् समये राघवः यजमानेन सह वार्थालापं कुर्वन् आसीत्।
किन्तु राघवः पूर्ववत् न आसीत्। यजमानस्य पुरतः अञ्जलिम् बद्ध्वा आज्ञापयतु स्वामी महान् अनुग्रहः इत्यादि वदति स्म। एतत् दृष्ट्वा हरेः बहु आश्चर्यं जातम्। राघवस्य गमनानन्तरं हरिः शङ्करेण सह वार्तालापं कुर्वन् लिपिकारस्य विषयं पृष्टवान्। भोः मासद्वये राघवः बहु परिवर्तितः। पूर्वं सः एवं विनयं न कदापि प्रदर्शितावान्। इदानीम् आगतवान् सर्वान् दृष्ट्वा स्वयं शिक्षितः इति मन्ये।
शङ्करः किमपि अनुक्त्वा विहस्य तूष्णीम् अभवत्। कतिपयदिनानन्तरं हरिः पुनः मित्रस्य गृहं गतवान्। तत्र अन्यः लिपिकारः आसीत्। हरिः तं दृष्ट्वा आश्चर्येण राघवस्य स्थाने अन्यः अस्ति किल? राघवः विरामं स्वीकृतवान् वा इति शङ्करं पृष्टवान्।
शङ्करः उक्तवान् न मया राघवः निष्कासितः। एषः नूतनः लिपिकारः। हरिः आश्चर्येण पृष्टवान् किमर्थम्? पूर्वं तु साः बहु अविधेयः आसीत्। अहं गतसप्ताहे दृष्टवान् यत् राघवः बहु विधेयः आसीत् विनीतः च आसीत्। अतः मम तु तदा बहु सन्तोषः जातः।
एतदेव राघवस्य निष्कासने कारणम् इति शङ्करः विहस्य उक्तवान्। एतत् श्रुत्वा आश्चर्यचकितः हरिः किं भोः! एवं वदति? पूर्वं राघवस्य रीतिः न समीचीना आसीत्। ग्रामे सर्वेऽपि भवतः आदरभावं विनयं च प्रदर्शयन्ति स्म। किन्तु राघवः न तथा आसीत्। इदमिदानीं सः परिवर्तितः आसीत् किल इति पृष्टवान्।
सत्यम्। राघवस्य एतादृशी रीतिः एव मम संशयस्य कारणम्। किमर्थं सः एवम् अतिविनयं प्रदर्शयति इति मया विचारितम्। तदा विषयः ज्ञातः। राघवः कार्ये समर्थः। सेवकवत् मम पुरतः विनयप्रदर्शनं न आवश्यकम् आसीत्। किन्तु एषु दिनेषु सः मम पुरतः नमस्कारादिकं कृत्वा अतिविनयेन वार्तालापं करोति स्म। अहम् अन्ते विचार्य विषयं ज्ञातवान् यत् मम समीपे ये ये कार्यार्थम् आगच्छन्ति तेषां समीपतः सः उत्कोचां स्वीकरोति इति। एतत् ज्ञात्वा अनुक्षणमेव मया सः निष्कासितः इति शङ्करः उक्तवान्।
एतत् श्रुत्वा हरिः तस्य वचने सत्यांशां ज्ञात्वा मित्रस्य बुद्धिमत्तां बहुधा प्रशंसितवान्।