SanskritLearners.Club

Where we Learn from Each Other

Remedy to Sin

Source - Sanskrit Chandamama |

| October |

| 1984

Natavar was a young boy with full of mischief. As he spent his young days without interests in studies his father though advised him, he did not improve. Because of drought in his village, his father died and Natavar became orphan. He went to city in search of a job. Luckily he got a one in a wealthy man’s house. The son of the wealthy man Shekhar was exactly like Natavar. What Natavar did to SheKhar and how his father was happy with Natavar is the story.

पापपरिहारः

नटवरः बाल्यतः आरभ्य स्वभावेन अतीव दुष्टः। स्वकीये अष्टमे वयसि एव तस्य दुष्टता प्रसिद्धा आसीत्। तस्य दुष्टचेष्टा समवयस्कानां विषये केवलं सीमिता न आसीत्। मूकजन्तून् अपि सः निर्धयं पीडयति स्म। कदाचित् एकः दुर्बलं बालशुनकं नटवरः दृष्टवान्। सः शुनकः बुभुक्षया म्लानः आसीत्। अस्थीनि बहिः दृश्यन्ते स्म। इदानीं सः आहारार्थम् अन्यशुनकैः सह युद्धं कर्तुम् अपि न शक्नोति स्म। अतः नटवरस्य पिता तस्य शुनकस्य कृते प्रतिदिनं किञ्चित् आहारं ददाति स्म। तस्मिन् ससमये नटवरः आगत्य स्वचेष्टाभिः तं पीडयति स्म।

बुभुक्षया व्याकुलः शुनकाः यदा स्वादितुम् आरम्भं करोति तदा नटवरः भोजनपात्रम् स्वीकृत्य उच्छस्थाने स्थापयति। तदा शुनकः कुय्ँ कुय्ँ इति वेदनापूर्णं शब्दं करोति। किञ्चित्कालानन्तरं नटवरः पुनः भोजनपात्रं तस्य पुरतः स्थापयति। तदा शुनकः कृतज्ञतां सूचयति।

कदाचित् नटवरः शुनकं वृक्षस्य शाखायाम् उपवेशयति। यदा शुनकः भीत्या आक्रोशनां करोति नटवरः हस्ततालेन स्वकीयम् आनन्दं प्रकटयति। नटवरस्य एतादृशीं दुष्टचेष्टां दृष्ट्वा पिता पुनः तर्जयति ताडयति च। तथापि नटवरस्य चेष्टाः न्यूना न भवन्ति। क्रमशः नटवरः युवकः जातः। दुष्टचेष्टासु आसक्तः सः अधिकं विद्याभ्यासं न कृतवान्।

वृष्टेः अभावतः कदाचित् नटवरस्य ग्रामे क्षामः आपतितः। दारिद्रयेण चिन्तया च नटवरस्य पिता शय्याम् आश्रितवान्। अल्पे एव काले दिवङ्गतः च। अनाथः नटवरः जीविकासम्पादनार्थं नगरम् आगतवान्। सौभाग्येन सः शीग्रम् एव एकस्मिन् धनिकस्य गृहे उद्योगं प्राप्तवान्। भोजनम् अतिरिच्य ५० रूपयकाणां मासिकवेतनं निश्चितम्।

धनिकः सज्जनः धार्मिकः च। सः सेवकानां विषये अतीव प्रीतिं प्रकटयति स्म। धनिकस्य पुत्रः शेखरः। सः दशवर्षीयः बालकः। शेखरः सर्वदा नटवरस्य समीपम् आगत्य कथां वदतु इति पीडयति स्म। यदा नटवरः कथां वक्तुम् उद्युक्तः भवति तदा कार्यं स्थगितं भवति स्म। एतत्कारणतः धनिकः नटवरं तदा तदा तर्जयति स्म।

धनिकः चिन्तयति नटवरः उद्देशपूर्वकं कार्यं न करोति इति। अतः एकदा धनिकः नटवरं तर्जयन् इदमिदानीं कार्यं कर्तुं भवतः उत्साहः नास्ति इति भाति। एवम् एव भवान् करोति चेत् अहं भवन्तं गृहतः निष्कासयामि। नटवरः भीत्या वास्तविकं कारणम् उक्तवान्। तदा धनिकः शेखरम् आहूय सम्यक् तर्जितवान्। इतःपरम् एवं न करणीयम् इति उपदेशं कृतवान्।

तद्दिनात् आरभ्य शेखरः नटवरं पूर्वापेक्षया अधिकं पीडयितुम् आरब्धवान्। यदा नटवरः कार्यं समाप्य विश्रान्तिम् अनुभवति तदा आगत्य शेखरः तं पीडयति स्म। ग्रीष्मः कालः। शैत्यम् अत्यधिकम् आसीत्। एकस्मिन् दिने प्रातःकाले शेखरः नवीनानि ऊर्णवस्त्राणि स्वीकृत्य नटवरसमीपम् आगत्य उक्तवान् एतानि वस्त्राणि भवतः कृते मम पित्रा आनीतानि। एतानि निश्चयेन शैत्यं निवारयन्ति। अतः भवान् प्राचीनवस्त्राणि निष्कासयतु। अहं नवीनवस्त्राणि ददामि इति।

ऊर्ण्वस्त्राणाम् आशया नटवरः प्राजीनवस्त्राणि सर्वाणि निष्कास्य एकं स्नानवस्त्रं धृत्वा स्थितवान्। सः मनसि एव चिन्तितवान् शेखरः कीदृशः दयालुः इति। धनिकस्य गृहे एकः क्रूरः शुनकाः आसीत्। शेखरः तं शुनकम् आनीय नटवरं प्रदर्श्य ग्रहीतुम् आदिष्टवान्। नटवरम् उक्तवान् च भोः जीवितुम् आशा अस्ति चेत् इतः धावतु। अन्यथा शुनकः भवन्तं मारयिष्यति इति।

नटवरः भीतः। शरीरे स्वेदः उत्पन्नः। सः ततः वेगेन धावितवान्। शुनकः तम् अनुसृतवान्। गृहस्य पृष्ठतः पुरतः सर्वत्र नटवरः धावितवान्। तथापि शुनकः तं न त्यजति। शेखरः तु पुनःपुनः शुनकम् उत्तेजयति। हस्ततालपूर्वकम् उच्चैः हसति च। अन्ते शेखरः शुनकं समीपम् आगन्तुम् आदिष्टवान्। शुनकं हस्ते गृहीत्वा नटवरम् उक्तवान् इदानीं शरीरे यथेष्टं स्वेदः उत्पन्नः स्यात्। एतत् शीतले वस्त्रं धारयतु कृपया। तानि वस्त्राणि इदानीं वस्तुतः आर्द्राणि आसन्। जलबिन्दवः पतन्ति स्म। वस्त्रम् हिमः इव शीतलम् आसीत्। नटवरः तानि वस्त्राणि तत्र एव त्यक्तवान्। स्वकीयानि पुरातनवस्त्राणि धृतवान्।

शेखरविषये नटवरः अतीव कुपितः आसीत्। अतः सः शेखरस्य पीडां निवेदयितुम् इच्छन् धनिकस्य समीपं गतवान्। तस्मिन् समये अन्यः सेवकः शेखरम् आक्षिपन् आसीत्। तत् श्रुत्वा धनिकः उक्तवान् शेखरः कार्यसमये भवन्तं पीडयति चेत् अहम् अवश्यं तं दण्डयामि। किन्तु अवशिष्टसमये कदाचित् सः भवन्तं किञ्चित् इव पीडयति चेत् भवता आक्षेपः न करणियः एव। शेखरः तु बालः। बाल्ये दुष्टचेष्टाः सहजाः। अतः शेखरम् आक्षिपन् पुनःपुनः मम समीपं न आगच्छतु। एतत् सर्वं श्रोतुं मम समयः नास्ति इति।

नटवरः एतत् श्रुतवान्। अहं निवेदयामि चेत् अपि धनिकस्य उत्तरम् एतत् एव इति चिन्तयित्वा सः प्रतिनिवृत्तः। धनिकस्य गृहे वहवः सेवकाः आसन्। किन्तु शेखरः तु नटवरम् एव अधिकं पीडयति स्म। ते सर्वे एतद्विषये स्वकीयम् अनुकम्पं प्रदर्शयन्ति स्म। एकस्मिन् दिने एकः सेवकः शुनकम् एकम् आनीय शेखरस्य कृते दत्तवान्। अनन्तरं सः नटवरम् उक्तवान् इतःपरं शेखरः भवन्तं न पीडयति। यतः अहं तस्य कृते बालशुनकम् एकं दत्तवान् अस्मि इति। मित्रस्य अनुकम्पं दृष्ट्वा नटवरः आश्चर्यं प्रकटितवान्। मित्रम् उद्दिश्य कृतज्ञतापूर्वं धन्यवादवचनानि च उक्तवान्।

किन्तु बालशुनकस्य स्मरणमात्रेण बाल्ये कृतानां दुष्टचेष्टानां चित्राणि मनःपटले प्रतिफलितानि। एकस्य दुष्टचेष्टया अन्ये कियत्कष्टम् अनुभवन्ति इति सः ज्ञातवान्। सः चिन्तितवान् बाल्ये कृतानाम् अपराधानां फलं इदानीम् अनुभवन् अस्मि। कृतस्य फलम् अनुभोक्तव्यम्। एतत् अनिवार्यम्। इदानीं पुनः तस्य मनसि शेखरस्य बालशुनकस्य चित्रम् आगतम्। शेखरः माम् एव एतावत् पीडयति। तर्हि असहायं तं बालशुनकं कियत् वा पीडयेत्? अतः नटवरः निश्चितवान् अहम् एव तं बालशुनकां पालयिष्यामि। बाल्ये कृतस्य पापस्य प्रायश्चित्तम् करोमि।

साः तत्क्षणे एव शेखरसमीपं गतवान्। तस्मिन् समये शेखरः बालशुनक्स्य उपरि आक्रमणं कर्तुं क्रूरशुनकं प्रेरयन् आसीत्। बालशुनकः तु भीत्या आक्रोशनं करोति स्म। एतत् दृष्ट्वा नटवरस्य मनसि करुणा उत्पन्ना। सः शेखरं तर्जयन् उक्तवान् अये! अन्यपीडनम् एव भवतः इच्छा चेत् भवान् मां यथेष्टं पीडयतु। किमर्थम् एतम् असहायम् अल्पवस्कं शुनकं विना कारणम् पीडयति? प्रथमं शुनकं त्यजतु।

अहं न त्यजामि। मां निवारयितुं भवान् कः? इतः अपसरतु। अहं यथा इच्छामि तथा आचरामि इति वदन् शेखरः बालशुनकं दृढं गृहीतवान्। नटवरः शेखरहस्ततः शुनकं मोचयितुं प्रयत्नं कृतवान्। शेखरः तु न त्यक्तवान्। अन्ते कुपितः नटवरः शेखरस्य शिरसि ताडितवान्। शुनकं स्वीकृत्य ततः गतवान् च।

एतत् सर्वं धनिकः श्रुतवान्। सेवकस्य एतावत् धैर्यम्! सामान्यः सेवकः मम पुत्रं ताडयति वा इति वदन् सः नटवरम् आहूतवान्। किमर्थम् एवं कृतम् इति कोपेन पृष्टवान् च। नटवरः शान्तरीत्या धैर्येण स्थितवान् आसीत्। सः निर्भयम् उत्तरं दत्तवान् स्वामिन्! शेखरः मां सर्वदा बहु पीडायति। तथापि अहम् एतावत्पर्यन्तं कदापि आक्षेपं न प्रकटितवान्। किन्तु असहायस्य शुनकस्य पीडनम् अहं दृष्टुं न शक्तवान्। अतः कोपेन अहं शेखरं ताडितवान्।

एवं वदतः नटवरस्य नेत्ररयोः अश्रूणि आगतानि। सः स्वकीये बाल्ये कृतानां दुष्टचेष्टानां विवरनं दत्वा उक्तवान् अहं मम दुष्टचेष्टानां फलम् इदानीम् अनुभवामि। प्रायश्चित्तरूपेण एतं बालशुनकं रक्षयित्वा प्रीत्या पालयितुम् इच्छामि इति। नटवरस्य वचनैः धनिकः बहु प्रभावितः। सः नटवरस्य कृते शतं रूप्यकाणि दत्तवान्।

धनिकस्य एतं विचित्रव्यवहारं दृष्ट्वा तस्य पत्नी पृष्टवती भवान् शेखरम् उद्दिश्य हितवचनानि उक्तवान्। तथैव पुत्रं ताडितवते नटवराय पुरस्कारं दत्तवान्। एतत् उचितम् वा इति। धनिकः शान्तस्वरेण उक्तवान् मम व्यवहारः उचितः एव। बाल्ये नटवरः शेखरः इव दुष्टः आसीत्। इदानीं सः पूर्वकृतस्य अपराधस्य फलम् अनुभवन् अस्ति। यदि शेखरः अपि स्वदुष्टचेष्टां न त्यजति तर्हि तेन अपि कालान्तरे कष्टम् अनुभोक्तव्यं भविष्यति। नटवरः सम्भाव्यमानात् अपराधतः शेखरं रक्षितवान्। एतदर्थम् अहं नटवराय पुरस्कारं दत्तवान्। नटवरस्य आशीर्वादेन शेखरः उत्तमः भविष्यति इति मम विश्वासः।

अनन्तरकाले नटवरस्य जीवने महत्परिवर्तनं दृष्टम्। सः पुरस्काररूपेण प्राप्तेन धनेन अल्पं वाणिज्यम् आरब्धवान्। शीघ्रम् एव प्रगतिं प्राप्तवान्। नटवरस्य गुणैः प्रभावितः प्रसिद्धवणिक् कश्चित् स्वपुत्रीं नटवराय दत्तवान्। विवाहः महता वैभवेन सम्पन्नः।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.