गोविन्दपुरे राघवः नाम वणिक् आसीत्। सः वाणिज्येन सह कुसीदव्यवहारम् अपि करोति स्म। सामान्यजनेभ्यः बहु धनं सम्पादयति स्म। यस्मात् पुरुषात् अधिकं धनं स्वीकर्तुं शक्यते तादृशपुरुषाय केवलं सः ऋणं ददाति स्म। यत्र लाभः नास्ति तत्र राघवः सर्वथा न प्रवर्तते। तस्मिन् ग्रामे रामनाथः नाम एकः कृषिकः आसीत्। दरिद्र्यकारणतः सः सर्वदा ऋणं स्वीकरोति स्म।
एकदा रामानाथः राघवसमीपम् आगत्य उक्तवान् भोः महाशय! अहम् इदानीं कष्टपरिस्थितौ पतितः अस्मि। इदानीं ५० रूप्यकाणि भवता दातव्यानि एव। वृद्धिः यावत् अपि भवतु अहं ददामि। एकसप्ताहानन्तरं वृद्धिसहितं ऋणं प्रत्यर्पयिष्यामि इति। राघवः अतीव व्यवहारचतुरः। सः जानाति यत् रामनाथस्य परिस्थितिः आतीव शोचनीया अस्ति। एतस्मै ऋणं दत्तं चेत् वृद्धिः किं मूलधनम् अपि न प्रत्यागमिष्यति इति।
किन्तु सः रामानाथस्य विरोधं सम्पादयितुम् अपि न इच्छति स्म। अतः सः उक्तवान् अद्य प्रातः भवान् एव प्रथमग्राहकः। किन्तु किं करोमि? मम हस्तः सर्वथा रिक्तः अस्ति। भवन्तं रिक्तहस्तेन प्रेषयितुं मम इच्छा नास्ति। तथापि अहं किं करोमि असहायः इति।
पञ्चाशत्रूप्यकाणि दातुम् अपि राघवः मयि न विश्वसिति इति सः बहु खेदम् अनुभूतवान्। क्रमशः तस्य खेदः कोपरूपेण परिणतः। यथाकथञ्चित् राघवतः धनं स्वीकरणीयम् एव इति सः निश्चितवान्। राघवः कथं वञ्चनीयः इति रामनाथः अहोरात्रं चिन्तयति स्म। गच्छन् तिष्ठन् उपविशन् शयनं कुर्वन् सः तदेव चिन्तयति स्म। अन्ते एकः उपायः तस्य मनसि स्फुरितः।
एकस्मिन् दिने राघवः एकाकी आपणे उपविष्टः आसीत्। तदा रामनाथः धावन् तत्र आगतवान्। राघवस्य समीपं गत्वा सः पृष्टवान् राघवमहोदय! दशभिः पञ्चसङ्ख्या गुणिता चेत् का सङ्ख्या लभ्यते इति। एषः रामनाथः सङ्कलनं गुणनं वा न जानाति। अतः एवं पृच्छति इति चिन्तयन् राघवः उक्तवान् पञ्चाशत्। भवतः बुद्धिः अस्ति वा? पञ्चाशत् कथम्? षष्टिः भवति किल इति उच्चस्वरेण उक्तवान् रामनाथः। पञ्चाशत् षष्टिः इति उभौ अपि उच्छस्वरेण पुनःपुनः उक्तवन्तौ। द्वयोः विवादं श्रुत्वा तत्र बहवः सम्मिलितवन्तः।
जनसमूहम् उद्दिश्य उच्चस्वरेण रामनाथः उक्तवान् भोः सहोदराः! अत्र शृण्वन्तु। विमृश्य न्यायनिर्णयं कुर्वन्तु। एषः वराकः राघवः मम समीपतः दश रूप्यकाणि अधिकं स्वीकर्तुम् इच्छति। अहम् एतस्य समीपे षष्टिरूप्यकाणि न्यासरूपेण स्थापितवान् आसम्। किन्तु इदानीम् राघवः वदति पञ्चाशत् रूप्यकाणि एव इति। भवन्तः सज्जनाः मदीयं धनं समग्रं मां प्रापयन्तु इति।
रामनाथस्य प्रतिपादनशैलीं दृष्ट्वा राघवः चकितः। तस्य मुखं विवर्णं जातम्। सः कोपेन उक्तवान् एषः रामनाथः कीदृशः दुष्टः! रे रामनाथ! भवान् कदा वा मम समीपे धनं स्थापितवान्? अयि भोः सज्जनाः! एषः असत्यं वदति। कदापि एतेन मम समीपे धनं न निक्षिप्तम् इति।
तदा रामनाथः राघवस्य वचनं तिरस्कुर्वन् उक्तवान् भवतः अभिनयः अत्र मास्तु। एतावत्पर्यन्तम् पञ्चाशत्रूप्यकाणि अङ्गीकरोति स्म। इदानीं तदपि न इति वदति। रे न्यूनातिन्यूनं पञ्चाशत्रूप्यकाणि वा ददातु। भवतः सकाशात् अहं युक्तं पाठं पठितवान्। इतःपरं विस्मृत्य अपि भवतः समीपे धनं न स्थापयिष्यामि। रामनाथस्य अभिनयः स्वरः च तावान् सहजः आसीत् येन सर्वे जनाः एतत् सत्यम् इत्येव चिन्तितवन्तः।
सर्वे मिलित्वा राघवं तर्जयितुम् आरब्धवन्तः प्रथमं तु भवान् पञ्चाशत्रूप्यकाणि दातुं सिद्धः आसीत्। एतत् तु अस्माभिः सर्वैः श्रुतम्। अस्माकं पुरतः एवं भवान् तावत् दातुम् अपि न शक्यते इति उक्तवान्। सर्वस्वाप्रहारः तु न उचितः। पञ्चाशत् स्वीकर्तुं रामनाथः सिद्धः अस्ति। अतः तावत् वा ददातु इति। इतोऽपि विवादः क्रियते चेत् षष्टिरूप्यकाणि दातव्यानि भवन्ति इति चिन्तया एव राघवः भीतः। सः मौनं पञ्चाशत् रूप्यकाणि आनीय रामनाथस्य हस्ते दत्तवान्।
यदा धनं हस्ते आगतं तदा रामनाथः उच्चैः हसितवान्। सर्वेषां पुरतः पञ्चविंशतिरूप्यकाणि राघवाय प्रत्यर्पयन् उक्तवान् भवन्तं पाठयितुम् एव अहम् एवम् अभिनयं कृतवान्। एतानि पञ्चविंशतिरूप्यकाणि स्वीकरोतु। अवशिष्टं ऋणरूपेण दत्तम् इति लिखतु। अहं सर्वाणि रूप्यकाणि स्वीकर्तुं शक्नोमि स्म। किन्तु कदापि तथा न करोमि। अहं दरिद्रः स्याम् न तु वञ्चकः इति। एतेन प्रसङ्गेन राघवः अतीव लज्जितः। जनाः रामनाथस्य चातुर्यं श्लाघमानाः हसन्तः च ततः निर्गतवन्तः।