एकस्मिन् ग्रामे एकः वेङ्कटाचलः नाम धनिकः आसीत्। एकस्मिन् दिने धनिकः यदा निद्रामग्नः आसीत् तदा कश्चित् चोरः तद्गृहं प्रविष्टवान्। सः शयनगृहं प्रविश्य आत्मना सह आनीतेन साधनविशेषेण पेटिकाम् उद्घाटितवान्। ततः धनकनकादीनि स्वीकृत्य पलायितवान् च। गमनसमये पादे लग्नेन केनचित् वस्तुना शब्दः उत्पन्नः। तेन वेङ्कटाचलः जागरितः। तदा चोरः छुरिकां प्रदर्शयन् उक्तवान् कोलाहलं करोति चेत् मारयामि इति।
भीतस्य वेङ्कटाचलस्य मुखतः कोऽपि शब्दः बहिः न आगतः। चोरः अपरास्मिन् क्षणे एव चोरितवस्तुभिः सह पलायितवान्। तदा वेङ्कटाचलः मञ्चतः अवतरन् उच्चस्वरेण चोरः चोरः इति आक्रोशनं कृतवान्। एतत् श्रुत्वा गृहसदस्याः सर्वे जागरिताः। पार्श्वगृहाणां जनाः अपि धावन्तः आगतवन्तः। एतत् सर्वं सम्भवति इति चोरः पूर्वम् एव जानाति स्म। अतः सः वेङ्कटाचलगृहस्य प्राकारम् उल्लङ्घ्य किञ्चिद्दूरं मार्गे धावितवान्। पार्श्वे एकं द्वारम् अर्धम् उद्घाटितं दृष्टवान्। त्वरया तत् गृहं प्रविष्टवान् च।
चौर्यम् एव तस्य वृत्तिः किल? अतः सः अस्मिन् गृहे अपि किमपि लभ्येत इति चिन्तयन् सर्वत्र अन्विष्य शयनगृहं प्रविष्टवान्। प्रकोष्ठे एकः दीपः मन्दं ज्वलन् आसीत्। मञ्चे एकः वृद्धः उपविष्टः आसीत्। सः वृद्धः द्वारम् एव पश्यन् आसीत्। चोरस्य एकस्मिन् हस्ते चोरितवस्तूनि आसन्। अन्यहस्ते तीक्ष्णा छुरिका दृश्यते स्म। एवं स्थिते अपि वृद्धः द्वारम् एव पश्यन् तूष्णीम् उपविष्टः आसीत्।
चोरः इतोऽपि समीपं गतावान्। तदा वृद्धः पृष्टवान् पुत्र! इदानीम् आगतवान् वा? किमर्थम् एतावान् विलम्बः? कियन्तं कालम् अहं भवतः प्रतीक्षां करोमि? कुत्र गतवान् एतावत्पर्यन्तम् इति। वृद्धः अन्धः इति चोरः ज्ञातवान्। अतः सः छुरिकां वस्त्रेषु स्थापयन् उक्तवान् अपि भोः अहं भवतः पुत्रः न। पुत्रस्य स्नेहितः। भवतः पुत्रेण एव अहं प्रेषितः। सः इदानीम् अपि न आगतवान् वा? प्रायः पानशालायाम् एव पानमत्तः पतितः स्यात् इति खेदेन उक्तवान् वृद्धः।
एतस्य वृद्धस्य कश्चित् पुत्रः वा पौत्रः वा प्रायः अस्ति। सः प्रतिदिनं पानशालां गच्छति इति भाति। पानमत्तः सः प्रतिदिनम् अपि विलम्बेन एव आगच्छति। एषः वृद्धः तु निद्रां विना तस्य आगमनं प्रतीक्षते इति चोरः चिन्तितवान्। भवतः पुत्रः माम् उक्तवान् अद्य रात्रौ अहं गृहं न गच्छामि। भवान् गत्वा मम पितरं सूचयतु इति। अतः अहम् आगतवान्। जलं पीत्वा गच्छामि इति उक्तवान् चोरः।
सः सर्वदा एवम् एव। इतःपरं तस्य प्रतीक्षया प्रयोजनं नास्ति। अहम् तु शयनं करोमि इति वदन् वृद्धः शयनार्थं पादौ प्रसारितवान्। इतः पलायनार्थम् एषः एव समयः इति चोरः चिन्तितवान्। अतः सः वस्तूनि छुरिकां च वृद्धस्य प्रकोष्ठे एकस्मिन् कोणे स्थापितवान्। तत्रैव स्थितं शुभ्रं युतकं वेष्टीं च धृतवान्। इदानीं सः चोरः इव न भाति अपि तु सभ्यः इव। किं कुर्वन् अस्ति? जलम् प्राप्तवान् वा? जलं प्राप्तवान् पीतवन् च। इदानीं वस्त्रं सम्यक् धारयन् अस्मि। भवान् द्वारं पिधाय शयनं करोतु। अहं गच्छामि इति उक्तवान् चोरः।
द्वारपिधानस्य आवश्यकता नास्ति भोः। पुत्रः उषःकाले वा आगच्छेत्। अहं निद्राप्राप्नोमि चेत् कोलाहले कृते अपि मम जागरणं न भवति। अतः द्वारं तथैव अस्तु नाम इति मञ्चे उपविश्य एव उक्तवान् वृद्धः। द्वारम् उद्घाटितम् एव भवति चेत् यः कश्चित् चोरः अन्तः प्रविशेत् किल? एषु दिनेषु कालः दूषितः। वृद्धस्य मम गृहं चोरः आगात्य किं वा कुर्यात्? स्वीकृत्य गन्तुं तु किमपि नास्ति अत्र। अतः द्वारं तथैव अस्तु इति वृद्धः उदासीनभावनया उक्तवान्।
वृद्धस्य जीवनपरिस्थितिं दृष्ट्वा चोरास्य मनसि खेदः उत्पन्नः। एतस्य पुत्रः मिलितः चेत् सः बोधनीयः इति सः मनसि एव चिन्तितवान्। अनन्तरं सः निर्भयेन मार्गां प्रविष्टवान्। तदा चोरास्य अन्वेषणे मग्नाः केचन तत्र आगतवन्तः। ते चोरं दृष्ट्वा एषः अस्मद्ग्रामीणः न। अन्यप्रदेशात् आगतः इव भाति इति चिन्तयन्तः तस्य समीपम् आगतवन्तः। कः भोः? भवान् मध्यरात्रे मार्गे सञ्चरति किल इति एकः पृष्टवान्।
अहं पार्शवगृहस्य वृद्धस्य पुत्रस्य स्नेहितः। मम स्नेहितः एकां वार्तां प्रेषितवान् आसीत्। अतः अहम् अत्र आगतवान् इति उक्तवान् चोरः। भवतः वचनस्य सत्यतां परिशीलयामः। अनन्तरम् एव भवान् इतः गच्छतु। वयम् इदानीम् एकस्य चोरस्य अन्वेषणे स्मः इति एकः उक्तवान्। चोरः तु धैर्येण तैः सह वृद्धस्य गृहं गतवान्। सर्वे वृद्धस्य गृहं गतवन्तः। तत्र चिन्तामग्नः वृद्धः मञ्चे उपविश्य द्वारप्रदेशम् एव पश्यन् आसीत्।
किं भोः तात! एषः मार्गे गच्छन् आसीत्। भवतः पुत्रस्य स्नेहितः वा एषः? कामपि वार्तां निवेदयितुम् आगतवान् इति वदति एषः। किम् एतत् सत्यम् इति एकः ज्येष्ठः पृष्टवान्। तदा वृद्धः उक्तवान् एषः असत्यं वदन् अस्ति। वस्तुतः एषः चोरः। चोरितवस्तूनि सः तत्र कोणे स्थापितवान् पश्यन्तु इति। वृद्धस्य वचनानुसारं द्वित्राः प्रकोष्ठस्य कोणे गत्वा आन्वेषणं कृतवन्तः। तत्र सर्वाणि वस्तूनि अपि लब्धानि। एतत् दृष्ट्वा चोरः ततः पलायनं कर्तुं प्रयत्नं कृतवान्। तदा सर्वे गत्वा चोरस्य बन्धनं कृतवन्तः।
कीदृशः वञ्चकः एषः वृद्धः! एतम् अन्धं मन्यमानः अहं वञ्चितः। रे वृद्ध! मां बन्धयितुम् इच्छन् एव भवान् द्वारम् उद्घाट्य स्थापितवान् किल इति उक्तवान् चोरः। मार्गे प्रचलन्तं कोलाहलं श्रुत्वा किमिति द्रष्टुम् इच्छन् द्वारम् उद्घाटितवान्। मम पुत्रः आगतः स्यात् वा इति मम सन्देहः आसीत्। भवान् चोरः इति अनन्तरं ज्ञातम्। अहं दृष्टियुतः इति जानाति चेत् मां घातयति स्म किल भवान्? अतः अन्धस्य अभिनयं कृतवान् इति उक्तवान् वृद्धः।
एवं वा? अस्तु नाम। रे वृद्ध! कदाचित् अहम् एतस्य प्रतीकारं साधयामि एव इति कोपेन उक्तवान् चोरः। वृद्धः शान्तस्वरेण उक्तवान् पश्यतु भवान् तु मारणार्थम् अपि सिद्धः चोरः। अतः यदा भवान् मम गृहं प्रविष्टवान् तदा एकाकी अहम् अन्धः इव आचरितवान्। यदा एते दश जनाः मम समीपम् आगताः तदा वृद्धस्य अपि मम शक्तिः आगता। चौर्यकारणतः सुदृढः अपि भवान् शक्तिहीनः सञ्जातः।
एवं चौर्यं सुदृढं शक्तिहीनं करोति चेत् समाजः दुर्बलम् अपि शक्तिशालिनं करोति। अतः भवान् चौर्यकार्यं त्यक्त्वा समाजे विश्वासं स्थापयतु। तदा सामाजस्थाः अपि भवतः हितम् एव कुर्वन्ति इति। तदा उपस्थितेषु एकः उक्तवान् तात! भवतः वचनं सत्यम्। समाजः एव अस्माकं रक्षणं करोति। भवतः पुत्रः दुष्टः भवति चेत् अस्माकं का हानिः इति चिन्तयन्तः वयम् एतावत्पर्यन्तं तूष्णीं स्थितवन्तः। इतःपरं भवदीयं पुत्रं सन्मार्गे आनेतुं वयं सर्वे प्रयत्नं कुर्मः।
चोरस्य विचारणा प्रवृत्ता। चोरः कारागारवासेन दण्डितः च।