SanskritLearners.Club

Where we Learn from Each Other

Foolish King

Source - Sanskrit Chandamama |

| July |

| 1984

This is a Mystical story about the Buddha which are known as Jaataka Kathaa where in it is mentioned about the hundreds of Life taken by Lord Buddha. In this series of stories you will find various Dharmic morale and his teachings to the public. You will find it more interesting to know about the teachings of Buddha and adopting such valuable teachings will surely bring change in your life.

मूर्खराजः

बोधिसत्वः देवानाम् अधिपतिः आसीत्। तस्मिन् समये ब्रह्मदत्तः काशीं परिपालयति स्म। ब्रह्मदत्तः बालभावं विहाय तारुण्ये पदं स्थापितवान्। बालबुद्ध्या सह यौवनमदः अधिकारमदः च वर्धितः। येन च देवान् एव सः न गणयति स्म। मानवान् तु तृणप्रायान् मन्यते स्म। देवेषु मानवेषु तिर्यग्जन्तुषु च को वा माम् अतिक्राम्यति इति तस्य भावना। अतः सः मूर्तिमान् अहङ्कारः एव अभवत्।

यदृच्छया दृष्टान् जरठान् गजान् अश्वान् वृषभान् च स्वयं अन्यैः च ताडयति स्म। जीर्णान् शकटान् पेटिकाः आसनानि च अग्निसात्करोति स्म। वृद्धान् तु स्वैरं भर्त्सयित्वा अपमानयति स्म। श्मश्रुलानां श्मश्रूणि अपकृत्य पीडयति स्म। एवं श्मश्रुलानां सोढुम् अशक्था दुरवस्था आसीत्। दुर्बलान् तु मार्गे इतस्ततः लुण्ठयति स्म। वृद्धस्त्रीणाम् अपि एषा एव गतिः। अतः युवराजं ब्रह्मदत्तं दूरतः दृष्ट्वा एव केचित् पलायन्ते स्म केचित् गृहान्तः विलीनाः भवन्ति स्म। साधवः सज्जनाः दीनाः च तस्य नामश्रवणेन एव भीत्या कम्पन्ते स्म।

ब्रह्मदत्तस्य दुश्चेष्टाः दुरहङ्कारः च सीमाम् अतिक्रान्ताः। सः इन्द्रादीन् देवान् अपि अविगणय्य स्वैरं विहरति स्म। राजकुमारस्य भवतः एतत् न उचितम् इति उपदेष्टा अपि कोऽपि न आसीत्। विरला हि राज्ञाम् उपदेष्टारः। राक्षससदृशस्य ब्रह्मदत्तस्य स्वैरवृत्या सर्वे प्रजाजनाः अतीव कष्टम् अनुभूतवन्तः

राजा एव स्वयं पीडयति चेत् कस्य अग्रतः रुद्यते? अनन्यगत्या सर्वे अपि सर्वं दुःखं मौनेन सोढवन्तः। केचित् वृद्धमातापितरौ राज्यान्तरं प्रेषितवन्तः। अन्ये अन्यां व्यवस्थां कृतवन्तः। वृद्धमातापितृसेवातः वयं वञ्चिताः इति सर्वे अपि अन्तरङ्गे व्यथाम् अनुभवन्ति स्म। तथापि जीवन् भद्राणि पश्यति इति भावनया कालं यापयन्तः आसन्।

भूलोके एषा गतिः चेत् स्वर्गलोके अपरा समस्या उद्भूता। वृद्धमातापितृसेवातः वञ्चिताः सर्वे अपि पापेन युक्ताः अभवन्। कर्तव्यच्युतिः पापाय किल भवति? सर्वे मरणानन्तरं नरकं प्रविष्टवन्तः। स्वर्गस्य प्रवेष्टा तु कोऽपि न आसीत्। अतः स्वर्गः शून्यः संवृत्तः। स्वर्गे कर्मकराः निरुद्योगिनः अलसाः च अभवन्। देवाधिपतेः वोधिसत्वस्य चिन्ता समुत्पन्ना कथम् एषा समस्या परिहरणीया इति।

बहुधा विचिन्त्य देवेन्द्रः दरिद्रवृद्धरूपं धृतवान्। एकस्मिन् जीर्णे शकटे तक्रेण पूर्णं घटद्वयं स्थापितवान्। शकटस्य कृशौ द्वौ वृषभौ यिजितवान्। तयोः वृषभयोः अस्थिपञ्जरमात्रम् आसीत्। एवं सज्जीकृत्य भूलोके मार्गे शकटेन प्रस्थितवान् इन्द्रः। तस्मिन् मार्गे एव राज्ञः शोभायात्रा आसीत्। ब्रह्मदत्तं राजपरिवारेण सह गजम् आरूह्य महता गर्वेण प्रस्थितवान्। शोभायात्रार्थं तोरणेन रङ्गवल्या च मार्गाः अलङ्कृताः आसन्। राजा ब्रह्मदत्तः शकटम् आरुह्य आगच्छन्तं वृद्धं दृष्ट्वा अरे वृद्ध! दूरम् अपसरतु! कियान् गर्वः! मम अभिमुकम् आगच्छति इति क्रोधेन उच्चैः भर्त्सितवान्।

अये! किमर्थं राजा उच्चैः एवम् आक्रोशति इति सर्वे अपि संमिलिताः आश्चर्यचकिताः अभवन्। वस्तुतः वृद्धः शकटः वृषभौ तक्रघटौ च ब्रह्मदत्तेन विना केनापि न दृष्टा। अत्र च देवेन्द्रस्य माया एव कारणम् आसीत्। वृद्धः शकटं गजस्य उपरि नीतवान्। क्रोधेन प्रलपतः ब्रह्मदत्तस्य शिरसि तक्रघटं प्रक्षिप्तवान् येन तक्रघटः भग्नः।

भीत्या ब्रह्मदत्तः गजम् अन्यत्र धावयितुं प्रवृत्तः। तदा देवेन्द्रः द्वितीयं तक्रघटम् अपि तस्य शिरसि प्रक्षिप्तवान्। स्रुतेन तक्रेण ब्रह्मदत्तस्य शरीरम् आर्द्रम् अभवत्। ब्रह्मदत्तः क्रोधेन गर्जन् आसीत्। तत्क्षणम् एव शकटः वृषभौ च अदृश्यतां गताः। घटस्य कर्पराः अपि न दृष्टाः। इन्द्रः स्वीयरूपेण प्रत्यक्षः अभवत्।

पादयोः पतितं ब्रह्मदत्तं दृष्ट्वा इन्द्रः उक्तवान् राजन्! ब्रह्मदत्त! गर्वः कस्य? किं भवतः उत मम? गर्वेन अन्धः मदेन मूर्छितः च किं भवान् अथवा अहम्? भवतः यौवनं स्थिरम् इति भवान् किं मन्यते? वार्धक्यं भवन्तं न स्पृशति इति किं भवान् भावयति? येन च वृद्धान् जीर्णवस्तूनि च भवान् तिरस्करोति।

भवतः दुश्चेष्टया सर्वाः अपि प्रजाः दुःखपङ्के निमग्नाः। भवतः दुर्व्यवहारतः भीताः सर्वे अपि स्वमातापितरौ राज्यान्तरं प्रेषितवन्तः। येन मातापितृसेवातः वञ्चिताः सर्वे अपि पापिनः अभवन्। पापिनः सर्वे नरकं गच्छन्तः सन्ति। अतः स्वर्गः शून्यः संवृत्तः। एतत् सर्वं भवान् किं जानाति? गर्वेण वृथाकार्ये प्रवृत्तः भवान्। राजन्! अप्रपत्तः भवतु। इतःपरम् अपथे मा प्रवर्तताम्। एतत् विपरीते तु वज्रायुधेन शिरः शतधा भग्नं भवेत् इति। अनन्तरम् इन्द्रः अन्तर्भूतः।

ततःप्रभृति सः वृद्धान् आदरेण दृष्टवान्। राज्ये शान्तिः प्रसृता। देशान्तरं गताः वृद्धाः अपि प्रतिनिवृत्ताः। एवं ब्रह्मदत्तस्य मनःपरिवर्तनेन सर्वे निश्चिन्ताः अभवन्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.