SanskritLearners.Club

Where we Learn from Each Other

I am the Fool

Source - Sanskrit Chandamama |

| September |

| 1984

Shilamukha was a wealthy person. But he was miserly. He had a Mango garden. Once, when workers were plucking the fruits, one of the labor ate one mango. Angered by this he quarreled with the labor and the labor beaten him. Thus unhappy with the workers he stopped plucking the fruits. One day, a bird in his garden told him three truths and that changed his mind to realize his mistakes. What happened next is the story.

अहम् एव मूर्खः

पूर्वम् एकस्मिन् नगरे एकः धनिकः आसीत्। तस्य नाम शिलामुखः इति। सः वाणिज्ये कुशलः। सः फलविक्रयणेन बहुधनं सम्पादितावान्। तस्य एकम् आम्रवृक्षाणां वनम् आसीत्। शिलामुखः तस्मिन् उपवने एकस्मिन् कोणे एकं कुटीरं निर्माय तत्र वसति स्म। प्राणधारणार्थं यावत् आवश्यकं तावत् एव धनम् व्ययीकरोति स्म। अवशिष्टं भूमौ स्थापयति स्म। पत्नीपुत्राणां अशनवसनादिविषये अपि कृपणतां दर्शयति स्म। शिलामुखः महान् कृपणः। वने फलितानि फलानि स्वयम् अपि न खादति अन्येषां कृते अपि न ददाति। पुत्रादयः खादन्ति चेत् सः तस्य मूल्यं गणयति स्म। दानधर्मादीनां नाम अपि सः न जानाति।

एकदा सः फलानां सञ्चयनं कर्तुं कर्मकरान् आज्ञापितवान्। सर्वे कर्मकराः मिलित्वा फलचयनं विभजनम् इत्यादिकं कुर्वन्ति स्म। शिलामुखः जागरूकतया चयनकार्यं पश्यति स्म। गणनकार्ये सः कदापि प्रमादं न करोति स्म। पादरूप्यकमूल्यकानि अर्धरूप्यकमूल्यकानि पादोनरूप्यकमूल्यकानि एकरूप्यकमूल्यकानि इति सः फलेषु विभागं करोति स्म। सर्वेषु अपि गणेषु कति फलानि सन्ति इति समीचीनतया गणयति स्म। तस्मिन् समये एकः कर्मकरः आत्मानं निग्रहीतुम् असमर्थः भूत्वा फलं खादितवान् शिलामुखः एतत् दृष्टवान्।

कुपितः शिलामुखः किं रे! अनुक्त्वा एव फलं खादति वा? तस्य मूल्यम् एकं रूप्यकम्। भवतः दैनिकं वेतनं तु अर्धरूप्यकात्मकम्। अतः भवता अद्य श्वः च अत्र आगत्य विना वेतनं कार्यं करणीयम् इति उक्तवान्। कर्मकरः एतत् न अङ्गीकृतवान्। प्रातः आरभ्य कार्यं कृत्वा अपि एकं फलं खादितुम् अवकाशः नास्ति वा इति तस्य वादः। एवमेव आरब्धः कलहः क्रमेण परस्परताडनपर्यन्तं गतः। अन्ते बलवान् सः कर्मकरः शिलामुखस्य शरीरं शिथिलयित्वा गतवान्। अन्ये अपि कर्मकराः तेन सह प्रतिनिवृत्ताः।

एकं लघुफलं चेत् तस्य मूल्यं पादरूप्यकं भवति। एषः कर्मकरः तावत् बृहत् फलं खादति चेत् किं कुर्मः? एतावत् एव न। सः माम् अपि ताडयितुं प्रवृत्तः। एतादृशानां दुष्टानां कृते किं कर्तुं शक्यते इति चिन्तयन् बहुखिन्नः अभवत् शिलामुखः। एवमेव दिनानि अतीतानि।

शिलामुखः पुनः आगत्य फलानि दृष्ट्वा दृष्ट्वा तत्रैव अटति स्म। यः कोऽपि शिलामुखं दृष्ट्वा किं भोः श्रीमन्! शिलामुखमहोदय! एतावन्ति फलानि व्यर्थानि भवन्ति। शीघ्रं विक्रयणं करोतु। कुतः एवं विलम्बः क्रियते इति पृच्छति चेत् सः तम् एव तर्जयति स्म। अहं सर्वं जानामि। गच्छतु भवान्। एते कर्मकराः उद्धताः। फलचयनं कुर्वन्तु इति उक्ते यथेच्छम् खादन्ति! किमर्थम् इति न प्रष्टव्यम्! माम् एव ताडयितुम् आगच्छन्ति। कलिकालः! ते वा किं कुर्वन्ति? वृष्ट्या वा वातेन वा आतपेन वा सर्वाणि फलानि नष्टानि इति भावयामि। किन्तु कस्यापि साहाय्यं न इच्छामि इति किमपि रटति स्म।

एकस्मिन् दिने एवमेव खिन्नः सः वने अटति स्म। तदा एकस्य आम्रवृक्षस्य उपरि उपविश्य गायन्तं एकं सुन्दरं पक्षिणं सः दृष्टवान्। सः पक्षी चटकसदृशः आसीत्। तस्य पुच्छे सप्तवर्णाः अपि आसन्। सः पक्षी एकवारं मन्दस्वरेण पुनः एकवारां तारस्वरेण सुमधुरं गायति स्म। तत् मधुरं गानं श्रुत्वा शिलामुखः आनन्देन तस्य समीपं गतवन्। पक्षी वृक्षस्य अधोभागे एव आसीत्। अतः एव सः तास्य समीपं गत्वा झटिति तं पक्षिणं हस्ते गृहीतवान्। सः पक्षी न भीतः। किन्तु गानं स्थगयित्वा तूष्णीम् अभवत्।

तदा शिलामुखः तं पक्षिणं हे पक्षिन्! भवान् मया सह सम्भाषणं कर्तुम् इच्छति वा? मम कृते फलानि विक्रेतुं सुलभं मार्गं वक्तुं शक्नोति वा? यथा सम्यक् गायति तथैव एकां सुलभां लाभयुक्तिं वदति वा इति पृष्टवान्। सः पक्षी मनुष्यभाषाया अवदत् प्रथमं मां त्यजतु। अनन्तरं लाभदायकं वचनत्रयं वदामि इति। पक्षिणः मानवभाषां श्रुत्वा शिलामुखः आश्चर्यचकितः। सः पुनः पृष्टवान् सत्यं वा? मम कृते लाभकरं मार्गं वदति वा इति। सत्यं वदामि इति पक्षी अवदत्।

शिलामुखः पक्षिणं त्यक्तवान्। सः पक्षी एकस्मिन् वृक्षे उपविश्य अवदत् अहं भवन्तं लाभदायकं वाक्यत्रयम् वदामि। तेषु प्रथमं वाक्यम् शृणोतु “अविद्यमानस्य वस्तुनः विषये चिन्ता न करणीया” इति। शिलामुखः तत् वचनां श्रुत्वा एतत् वाक्यं बाल्ये एव गुरुभिः पाठितम्। अत्र कः विशेषः इति पृष्टवान्। पक्षी पुनः अवदत् शिलामुख! भवान् मूर्खः। नो चेत् मम शरीरे यत् सुवर्णं आसीत् तत् भवान् जानाति स्म। किञ्चित् कालपर्यन्तम् अहं भवतः हस्ते एव आसम्। तथापि भवान् एतत् न ज्ञातवन् किल इति। हन्त! हन्त! भवतः शरीरे सुवर्णं आसीत् वा? भवन्तं त्यक्त्वा मया अपराधः कृतः।

पक्षी पुनः मन्दहासेन अवदत् शिलामुख भवान् खलु मूर्खः! मम शरीरे सुवर्णम् अस्ति इति उक्ते सत्यम् इत्येव चिन्तितवान्। अल्पभारयुतस्य मम शरीरे कथं वा सुवर्णं भवितुम् अर्हति? एतं लघुविषयं अपि भवान् न ज्ञातवान्। भवान् निश्चयेन मतिहीनः इति। कुपितः शिलामुखः रे असत्यवादिन्! भवन्तं मारयामि इति गर्जनं कृतवान्। मम वचनं सत्यम् इति अनन्तरं ज्ञायते। इदानीं द्वितीयं वाक्यं शृणोतु – “अन्यैः यदुक्तं तत् सर्वम् अपि सत्यं न भवति”।

तत् पुनः भवता वक्तव्यं वा? इदानीं भवद्वचनेन एव तत् ज्ञातं किल? सर्वज्ञः अपि भवान् मूर्खः इव कार्यं करोति। मम तृतीयं वाक्यं शृणोतु! मम समीपे अधिकप्रमाणं सुवर्णम् अस्ति इति उक्तम् किल? तत् न मम समीपे। किन्तु भवतः वने एव तत् अस्ति। भवान् एकस्य फलस्य लोभेन सर्वाणि अपि फलानि व्यर्थं कृतवान्। भूमौ विद्यमानम् ऐश्वर्यं विहाय भवान् तत् अन्यत्र अन्विषति। भवन् खलु मूर्खः इति पक्षी पुनः भर्त्सनम् अकरोत्।

तत् वचनं श्रुत्वा शिलामुखः उन्मत्तः इव सत्यम् अहम् एव मूर्खः। कर्मकराः फलं खादन्ति इति बुद्ध्या फलचयनम् एव निराकृतवान्। इदानीं तु सर्वाणि फलानि नष्टानि। भाग्यहीनस्य मम सर्वनाशः समुत्पन्नः इति शिरोघट्टनपूर्वकं रोदनं कृतवान्। तावति एव काले कुतश्चित् झञ्झावातः समागतः। सर्वाणि वृक्षपत्राणि गगनं गतानि। वृक्षाः समूलं पतिताः। किञ्चित्काले एव प्रलयः संवृत्तः इव।

शिलामुखः बहु भीतः। नेत्रं निमील्य एकत्र उपविष्टवान्। यदा झञ्झावातः स्थगितः तदा एषः पुनः नेत्रम् उन्मीलितवान्। तदा पक्षी अपि न आसीत्। स्वकीयं गृहम् अपि विनष्टम् आसीत्। तदा तस्य ज्ञानोदयः अभवत्। अहं खलु मूर्खः। हतभाग्यः। यदा सम्पत्तिः आसीत् तदा न आनुभूता। पत्नीपुत्राणां कृते अपि निर्बन्धः कृतः। दानधर्मादिना पुण्यम् अपि न सम्पादितवान्। इदानीं किम् अस्ति? इति महान्तं पश्चात्तापम् अनुभूतवान्। अनन्तरं निगूढं धनं स्वीकृत्य तेन धनेन सुष्ठुरीत्या जीवनं कृतवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.