चित्रपुरग्रामस्य ग्रामाधिकारी प्राभाकरश्रेष्ठी। तस्य एका प्रवृत्तिः आसीत्। सः जनान् आहूय काश्चन लघुपरीक्षाः आयोजयति स्म। तत्र सफलतां ये प्राप्तवन्तः तेषां कृते पारितोषिकाणि ददाति स्म। एतेन स्वयं सन्तोषम् अनुभवति स्म। एकदा तस्य मनसि एकः विचारः उत्पन्नः मम ग्रामे ज्ञानवान् विवेकी च कः अस्ति इति ज्ञातव्यम् इति।
प्रभाकरश्रेष्ठी बहून् जनान् पृष्टवान् अस्माकं ग्रामे अत्युत्तमः विवेकी कः अस्ति इति। तदा सर्वे एकम् एव उत्तरं वदन्ति स्म एषः अल्पः विषयः अपि भवता न ज्ञातः वा? रामं भीमं सोमं च अतिरिच्य अन्यः विवेकी कोऽपि नास्ति इति। एतेन ग्रामाधिकारिणः कार्यं सुलभं जातम्।
एकस्मिन् दिने ग्रामाधिकारी तान् त्रीन् अपि आहूय उक्तवान् भवन्तः त्रयः एव ग्रामे विवेकिनः इति सर्वे उक्तवन्तः। किन्तु अहं भवत्सु अपि उत्तमः कः इति ज्ञातुम् इच्छामि। एतदर्थं भवतां कृते एका परीक्षा आयोजनीया इति चिन्तितवान्। एतत् भवतु वा इति।
ग्रामाधिकारिणः वचनं श्रुत्वा त्रयः अपि आश्चर्यचकिताः। किमर्थं ग्रामाधिकारी बुद्धिमत्तायाः परिक्षां कर्तुम् इच्छति इति ते न ज्ञातवन्तः। अतः ग्रामाधिकारिणः आशयं ज्ञातुम् इच्छन्तः ते त्रयः एकमत्येन उक्तवन्तः भवता चिन्तिता परीक्षा का वदतु तावत् इति।
तदा ग्रामाधिकारी उक्तवान् भवतः त्रीन् अपि मरुभूमौ भिन्नभिन्नस्थलेषु अन्नजलादीनि अदत्वा त्यजामि। यः ग्रामं प्रथमं प्रत्यागच्छति तस्मै दश दीनारान् पारितोषिकरूपेण ददामि। एषा एव परीक्षा इति।
तदा रामः उक्तवान् बुद्धिमान् विवेकी पुरुषः सर्वविधकष्टैः आत्मानं रक्षति। तप्तानां सिकतानां तापस्य अनुभवः यथा न भवेत् यथा च अङ्गुलीनां मध्ये सिकताः न प्रविशेयुः तादृशीं पादरक्षां मम कृते दापयतु। तदा एव अहं भवतः परीक्षां सम्मुखीकरोमि इति। भीमः उक्तवान् कष्टानि तीर्त्वा कथं प्रत्यागच्छामि इति अहम् अन्यं न वदामि। किन्तु भवता भवदीयः एकः विश्वासार्हः जनः मया सह प्रेषणीयः इति। तदा विस्मितः ग्रामाधिकारी उक्तवान् अत्र किमपि रहस्यम् अस्तीति प्रतिभाति। अतः भवतः उद्देशः कः इति स्पष्टं वदतु इति।
विवेकिना सह सर्वदा एकः सहायकः भवेत् एव। तेन यदा समस्याः आगच्छन्ति तदा सुलभतया परिहारः अन्वेष्टुं शक्यते। अन्यथा भवदीयं विश्वासार्हं पुरुषं भवान् नाशयितुं न प्रेषयति किल? अतः मया सह यः आगच्छति तं प्रति मरुभूमितः आगमने सुलभमार्गं सूचयित्वा एव भवान् प्रेषयति। तम् अनुसृत्य अहम् अपि प्रत्यागन्तुं शक्नोमि। अतः एव मया तथा नियमः सूचितः इति। ग्रामाधिकारी सोमं पश्यन् उक्तवान् एतद्विषये भवान् किं वदति इति।
सोमः उक्तवान् विवेकी पुरुषः आपत्काले चातुर्येण व्यवहृत्य आपदं परिहरति इति तु सत्यम् एव। किन्तु बुद्ध्या आपदः आह्वानं न करोति। भवान् माम् अविवेकिनं चिन्तयति चेदपि चिन्ता नास्ति। अहं तु दशदीनाराणां कृते एतादृशपरीक्षां न अङ्गीकरोमि इति। सोमस्य उत्तरं श्रुत्वा ग्रामाधिकारी विवेकित्वं नाम किम् इति ज्ञातवान्। अतः तान् सर्वान् तत्क्षणे एव प्रेषितवान्। एवम् अहं दशदीनाराणाम् अपव्ययं निवारितवान् इति सः आत्मनि एवं तृप्तिम् अनुभूतवान्।