SanskritLearners.Club

Where we Learn from Each Other

Intelligent

Source - Sanskrit Chandamama |

| December |

| 1984

Once in a village a magician claiming himself that he can know every one’s secret and is a disciple of Devi. Every villager believed him. But Kanakaraj was not in belief with the trick of the magician. One day, Kamalanath who is a wealthy person asked to ask the magician about the money lost from the magician. Though he was not interested Kamalanath gave a proposal. What Kanakaraj did and what Kamalanath learnt out of it is the story.

युक्तिमान्

सीतापुरम् इति कश्चित् ग्रामः। तं ग्रामं प्रति एकः मान्त्रिकः आगतवान्। मम शरीरं परोपकारार्थम्। अहं देव्याः उपासकः। सर्वेषाम् उपकारं करोमि। मन्त्रप्रभावेण अहं सर्वेषां यत्किमपि रहस्यं ज्ञातुं प्रभवामि इति सः स्वयमेव आत्मश्लाघनं कुर्वन् आसीत्। ग्रामस्थाः सर्वे मुग्धाः सरलाः च। मान्त्रिकः सर्वान् वञ्जयन् बहुधनं सम्पादितवान्। तस्मिन् ग्रामे कनकराजः इति कश्चन आसीत्। तस्य एतादृशमान्त्रिकाणां विषये श्रद्धा एव न आसीत्। सः एवं चिन्तयति स्म एतादृशजनाः उदरम्भरिणः कमपि विषम् अवलम्बन्ते। मुग्धाः जनाः यावत्पर्यन्तं भवन्ति तावत्पर्यन्तं एतादृशवञ्चकाः अपि भवन्ति एव इति।

एकस्मिन् दिने तद्ग्रामस्थः एकः धनिकः कमलनाथः कनकराजस्य समीपम् आगत्य उक्तवान् तेन मान्त्रिकेण मम बहु उपकारः कृतः। तदर्थं तस्मै मान्त्रिकाय प्रीत्या मया शतं रूप्यकाणि अद्य ससन्तोषेण दीयन्ते। भवान् सर्वदा सः मान्त्रिकः वञ्चकः इति कथयति किल? सः वञ्चकः इति यदि साधारं साधयति तर्हि भवते एव अहं शतं रूप्यकाणि ददामि इति। कनकराजः किञ्चित् आलोच्य उक्तवान् अस्मिन् ग्रामे सः मान्त्रिकः एकः महान् योगी इत्येव सर्वेषाम् अभिप्रायः। अपि च अन्यग्रामस्थाः अपि तस्य मान्त्रिकस्य प्रभावेन आवृताः। बहु धनमपि तस्मै यच्छन्ति। एवं स्थिते अहम् एकाकी सः वञ्चकः इति कथं साधयामि? एतत् बहु कष्टकरम् इति।

कमलनाथः एकम् उपायं सूचितवान्। भवान् एवं करोतु। पूर्वं भवान् शतं रूप्यकाणि चोरेण अपहृतानि इति उक्त्वा मम सकाशात् शतं रूप्यकाणि ऋणत्वेन स्वीकृतवान् किल? चोर्यविषयं मान्त्रिकस्य समीपे उक्त्वा केन अपहृतानि इति पृच्छतु। यदि सः सत्यं वदति तर्हि भवान् धनं पुनः प्राप्नोति। तदेव धनं मह्यं ददातु। अहां तद्धनं मान्त्रिकाय ददामि इति। यदि मान्त्रिकः सत्यं वक्तुं न प्रभवति तर्हि किं करोति भवान् इति पृष्टवान् कनकराजः। तदा भवता मह्यं यत् धनं दातव्यम् आसीत् तत् न ददातु। सः मान्त्रिकः वञ्चकः इति ज्ञातं चेत् पुनः प्रतिफलदानस्य आवश्यकता एव न भवति। शतं रूप्यकाणि मम समीपे एव अवशिष्यन्ते। अतः अहं भवता ऋणं प्रत्यर्पितम् इति भावयामि इति उक्तवान् कमलनाथः।

कमलनाथस्य चातुर्यपूर्णं वचनं श्रुत्वा कनकराजः आश्चर्यचकितः। ऋणत्वेन दत्तं धनं प्रतिस्वीकर्तुम् एषः युक्तम् उपायं चिन्तितवान् इति सः चिन्तितवान्। अस्तु गच्छावः इति उभावपि मान्त्रिकस्य समीपं गतवन्तौ। तस्मिन् समये मान्त्रिकस्य समीपे बहवः जनाः आसन्। मान्त्रिकः दीर्घं कञ्चुकं धृत्वा मृगचर्मासने उपविष्टः आसीत्। तस्य पुरतः अनेकप्रकारकाणि चित्राणि लिखितानि आसन्। चित्रमध्ये अस्थिद्वयम् एकं कपालं च आसीत्। सः मान्त्रिकः नेत्रे निमील्य तदा तदा दन्तान् निष्पीड्य बद्धभृकुटिः भूत्वा मन्त्रपठनं कुर्वन् आसीत्।

कनकराजः तं नमस्कृत्य स्वस्य नाम उक्त्वा स्स्वामिन् मम एका याचना अस्ति। किन्तु भवान् मम उपकारं करोति चेदपि अहं प्रतिफलं दातुं न शक्तः। यतः अहं दरिद्रः। प्रतिफलं विना भवता दरिद्राणाम् उपकारः क्रियते इति मया श्रुतम्। अतः एव आगतवान् इति उक्तवान्। मान्त्रिकः नेत्रे उद्घाट्य उक्तवान् सत्यम् अहं देव्याः उपासकः। भक्ताः सन्तोषेण यद्यत् यच्छन्ति तदेन देवी सानन्दं स्वीकरोति। अपि च प्रतिफलं विना दरिद्राणां सेवा कर्तव्या इत्यपि अहं देव्या आज्ञप्तः। अतः निःसङ्कोचं पृच्छतु इति।

दशदिनेभ्यः पूर्वं मम गृहे शतं रूप्यकाणि केनचित् अपहृतानि। तद्धनम् अहम् एकस्मिन् वस्त्रे बन्धयित्वा गृहे एव एकत्र पार्श्वे स्थापितवान् आसम्। ग्रामे सर्वेऽपि भवतः समीपं भक्त्या आगच्छन्ति। अहम् एकः एव भवतः सन्निधिं न आगतवान्। अद्य एषः धनिकः कमलनाथः अनुरोधपूर्वकं मां भवतः समीपम् आनीतवान्। अतः तद्धनं केन अपहृतम् इति वदतु। पुनः यथा तत् धनं प्राप्तुं शक्यं तथा करोतु इत्युक्तवान् कनकराजः। मान्त्रिकः पुनः नेत्रे निमील्य एवम् आलोचितवान् अस्य एकस्य एव मम विषये श्रद्धा न आसीत्। एषः अपि मम भक्तः भवति चेत् तदा ग्रामे कोऽपि मम विरोधी एव न भविष्यति। अपि च अन्येषु ग्रामेषु अपि मम प्रभावः अधिकतया प्रसरति। अतः केनापि उपायेन अस्य कनकराजस्य साहाय्यं मया करणीयम् इति।

मान्त्रिकः एवम् आलोच्य नेत्रे उद्घाट्य गम्भीरेण स्वरेण उक्तवान् अहो! ज्ञातम्! सर्वोऽपि देव्याः महिमा। धनं केन चोरितम् इति मया ज्ञातम् इति। कनकराजः विनयेन पृष्टवान् स्वामिन् केन धनम् अपहृतम्? चोरः भवतः मित्रेषु अन्यतमः। तस्य नाम अहं न वदामि। तस्य अपराधः क्षन्तव्यः इति देवी आज्ञापितवती। सः चोरः अस्यां रात्रौ शतं रूप्यकाणि आनीय मह्यं ददाति। भवान् श्वः अस्मिन्नेव समये आगत्य धनं स्वीकरोतु इति मान्त्रिकः उक्तावान्। कनकराजः अस्तु इति अङ्गीकृत्य पुनः साष्टाङ्गनमस्कारं कृत्वा प्रतिनिवृत्तः।

स्वस्य वचनं श्रुत्वा चोरः धनम् आनीय ददाति इति मान्त्रिकः चिन्तितवान्। शिष्यद्वारा ग्रामे सर्वत्र एतं विषयं प्रकटीकारितवान्। किन्तु कोऽपि धनं न आनीतवान्। अतः सः स्वस्य समीपे स्थितं धनमेव कनकराजाय दातुं निश्चितवान् दत्तवान् च। एतत्सर्वं दृष्ट्वा धनिकः कमलनाथः मान्त्रिकस्य प्रभावेण एव कनकराजेन धनं पुनः प्राप्तम् इति चिन्तितवान्। अतः पूर्वं यथा निश्चितं तथैव मान्त्रिकाय शतं रूप्यकाणि दत्त्वा कनकराजस्य सकाशात् धनं स्वीकर्तुं तस्य गृहं गतवान्।

तत्र कनकराजः उक्तवान् मान्त्रिकस्य कापि शक्तिः नास्ति इति तु सिद्धं किल? अतः मया दातव्यं किमपि नास्ति इति। तदा कमलनाथः कोपेन उक्तवान् किम्? किमर्थम् एवं वदति? तस्य शक्तिः नास्ति इति भवता साधिता वा? मान्त्रिकः चोरेण अपहृतं भवतः धनं दापितवान् किल इति। मम धनं यदि अपहृतं स्यात् तदा मान्त्रिकस्य विषये श्रद्धा भवेत् इति उक्तवान् कनकराजः। अये! भवान् किम् एवं वदति इति पृष्टवान् कमलनाथः। अहं यदा भवतः समीपे धनं याचितुम् आगतवान् तदा ऋणं प्रष्टुं किमपि कारणम् आवश्यकम् आसीत्। अतः भवतः समीपे अहं चोरेण धनम् अपहृतम् इति असत्यम् उक्तवान्।

एतादृशलघुविषयं ज्ञातुम् अपि सः मान्त्रिकः न समर्थः। चोरः आगत्य धनं न दत्तवान् इति यदि मान्त्रिकः वदति तदा तस्य विषये सर्वेषां अनादरः भवेत्। अत एव सः भीत्या स्वीयं धनमेव मह्यं दत्तवान् इति कनकराजः उक्तवान्। एतत् सर्वं तत्रैव सर्वेषां पुरतः वक्तव्यम् आसीत्। किमर्थं तथा न कृतम् इति पृष्टवान् कमलनाथः। ग्रामे सर्वेऽपि तेन वञ्चिताः। स्वकीयमौढ्येन ते तं मान्त्रिकमेव दैवमिति भावयन्ति। अहम् यदि सत्यं वदामि सर्वे एषः असत्यं वदति इति मामेव ताडयन्ति। ये विचारं कुर्वन्ति ते एतादृशजनानां विषये श्रद्दामेव न कुर्वन्ति। मुग्धजनानां समीपे यदि वदामि तदा प्रयोजनम् अपि नास्ति। अतः एव अहं न कथितवान् इति कनकराजः उक्तवान्।

भवता सत्यं वक्तव्यम् आसीत्। सर्वे ताडयितुम् आगच्छन्ति चेत् अहं तदा निग्रहं कुर्याम् इति कमलनाथः उक्तवान्। एतत् बहु समीचीनम्। मान्त्रिकस्य विषये सर्वेषाम् अनादरः भवतु इत्यपेक्षया अपि मम गौरवं बहु प्रधानम्। धनिकस्य धनं दातुम् अशक्तः कनकराजः धनं चोरेण अपहृतम् इति असत्यम् उक्तवान्। अतः कनकराजः अनृतं वदति इति सर्वे चिन्तयन्ति चेत् तदा मम अपमाननं न भवति वा? पूर्वं भवता एकं उक्तं मान्त्रिकस्य वञ्चकत्वं साधयति चेत् धनं मह्यं मा ददातु इति। अतः एव अहं धनं न ददामि इत्युक्तवान्। भवान् यदि वचनम् अन्यथा करोति तर्हि स्वीकरोतु धनम् इति कनकराजाः धनं दातुं प्रवृत्तः।

तदा कमलनाथः मास्तु मास्तु भवतः बुद्धेः मम पारितोषिकम् इदम् इति उक्त्वा गतवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.