कनकगुप्तः महेन्द्रपुरीं परिपालयति स्म। तस्य कोशागारस्य अधिकारी पीताम्बरः। पीताम्बरः एकदा मन्त्रिणं निवेदितवान् कार्यम् अधिकम् अस्ति। अतः मम सहायकद्वयम् अपेक्षितम् इति। मन्त्री अनुमतिं दत्तवान्। एकैकस्य अपि द्वादश दीनारान् मासिकवेतनं निश्चिनोतु इति अपि उक्तवान्। पीताम्बरः कृतज्ञतां समर्प्य ततः निर्गतः।
अनन्तरं सः सहायकत्वेन त्रीन् पुरुषान् नियोजितवान्। एतं विषयं ज्ञात्वा मन्त्री कुपितः। सः साक्षात् राजसमीपं गत्वा उक्तवान् – महाप्रभो! कोशाधिकारी पीताम्बरः मम वचनम् अतिक्रम्य व्यवहरति। द्वयोः सहायकयोः नियुक्तिविषये मम अनुमतिं सम्पादितवान्। किन्तु त्रयाणां कृते उद्योगं दत्तवान् इति। राजा कनकगुप्तः उक्तवान् – एवं चेत् पीताम्बरः विचारणीयः। ज्येष्ठानाम् अधिकारिणां वचनस्य उल्लङ्घनम् अनुचितम् एव इति। अनन्तरं राजा पीताम्बरम् आहूय मन्त्रिणः वचनस्य उल्लङ्घनं किमर्थं कृतम् इति पृष्ट्वान्।
प्रभोः द्वयोः नियुक्तिः एकैकस्य अपि द्वादशदीनारं मासिकवेतनं च मन्त्रिमहोदयेन अनुमतम् इति तु सत्यम् एव। अहं त्रयाणां कृते उद्योगं दत्तवान्। किन्तु एकैकस्य मासिकवेतनम् अष्टदीनाराः एव। अतः व्ययः अधिकः नास्ति। कोशागारस्य अपि हानिः नास्ति इति उक्तवान् पीताम्बरः।
तदा राजा कोपेन पृष्टवान् – सर्वत्र भवतः इष्टानुसारं व्यवहारः वा? एतद्विषये अधिकारिणः अनुमतिः किमर्थं न स्वीकृता इति। पीताम्बरः विनयेन उक्तवान् – उद्योगे नियोजयितुं मन्त्रिमहोदयः जनद्वयं प्रेषितवान्। तौ दृष्ट्वा अत्र तृतीयः अस्ति चेत् एव युक्तम् इति अहं चिन्तितवान्। अतः तथा कृतवान् इति।
तदा मन्त्री मध्ये उक्तवान् – प्रभो! मया प्रेषितौ उभौ अपि विश्वासार्हौ दक्षौ च। अतः एव नियुक्तिविषये अहम् आसक्तिं प्रदर्शितवान् इति। एतत् युक्तम् एव। धनागारसम्बन्धिविषये भवतः आसक्तिः युक्ता। धनागारस्य कर्मकराः विश्वासार्हाः समर्थाः च भवेयुः एव इति कनकगुप्तः उक्तवान्।
तदा पीताम्बरः प्रभो! मन्त्रिमहोदयेन प्रेषितयोः एकः तस्य मित्रस्य पुत्रः अपरः महाराज्ञ्याः दूरबन्धुः इति उक्तवान्। तदा राजा मन्दं हसन् उक्तवान् – एतादृशाः कोशागारे लघु उद्योगार्थम् अनर्हाः इति किल भवतः अभिप्रायः इति।
प्रभो! एषा अर्हतायाः समस्या न धनिकानां पुत्राः सश्रमं कार्यं कर्तुं न शक्नुवन्ति। मम तु सश्रमकार्यार्थम् एकः अपेक्षितः। अतः तृतीयम् एकं उद्योगे नियोजितवान्। किन्तु यथा अधिकः व्ययः न भवेत् तथा जागरूकता आश्रिता मया इति उक्तवान् पीताम्बरः।
राजा मन्त्रिणः मुखं दृष्टवान्। मन्त्री लज्जया शिरः अवनमितवान्। तदा आरभ्य राजा – उद्योगनियुक्तिसमये पक्षपातः न करणीयः। कार्यस्य आवश्यकताम् अनुसृत्य समर्थः एव उद्योगे नियोजनीयः इति शासनं कृतवान्।