विन्ध्यपर्वतस्य प्रान्ते एकः विशालः सरोवरः। सरोवरस्य तटे प्रशान्ते प्रदेशे एकं गुरुकुलम्। गुरुकुलस्य कुलपतिः मातङ्गः नाम पण्डितः। तस्य आश्रमे अनेके विद्यार्थिनः विद्यार्जनाय वसन्ति। तेषु विद्यार्थिषु केचन धनिकानां पुत्राः। केचन निर्धनिकानां पुत्राः। तेषां मध्ये राजसम्बन्धी विरूपः अपि एकः
विरूपः बुद्ध्या किञ्चित् वक्रः। सः सर्वेषां विडम्बनं करोति। सः गुरुकुले सर्वदा नियमान् उल्लङ्घयति। मातङ्गः तस्मिन् समये तं निन्दति। विरूपः तु गुरुः मां निन्दति इति कुपितः भवति। अतः सहपाठिनां समीपे पङ्गुः गुरुः इति गुरोः विडम्बनं करोति। वस्तुतः मातङ्गस्य दक्षिणपादः किञ्चित् ऊनः। एकस्मिन् दिने मातङ्गः शिष्याणां पाठस्य समाप्तेः अनन्तरम् एकां कथां वक्तुम् आरब्धवान्।
पञ्चाशत्वर्षेभ्यः पूर्वं भैरवानन्दः नाम एकः कुलपतिः आसीत्। सः अर्वशास्त्रपारङ्गतः मन्त्रवेत्ता च। शिष्याणां विद्याभ्याससमाप्तेः अनन्तरं प्रियशिष्याणां कृते मन्त्ररहस्यम् उपदिशति स्म। एवम् उपदिष्टाः ते एव प्रसिद्धाः मन्त्रवेत्तारः भवन्ति स्म।
भैरवानन्दस्य सुभानुः मातङ्गः इति द्वौ शिष्यौ। तौ शास्त्राभ्यासं समापितवन्तौ। अनन्तरं मन्त्ररहस्यं ज्ञातुं तयोः इच्छा जाता। अतः उभौ अपि गुरोः समीपं गत्वा मन्त्रम् उपदिशतु इति प्रार्थितवन्तौ। भैरवानन्दः अङ्गीकृत्य तयोः कृते एकप्रकारं मन्त्रम् एव उपदिष्टवान्। तस्य सिद्धप्रकारम् अपि निवेदितवान्। अनन्तरम् एवम् उक्तवान् – एतेन मन्त्रेण यथेष्टं रूपं प्राप्तुं शक्यम्। किन्तु मन्त्रस्य केचन नियमाः सन्ति। मन्त्रस्य परीक्षार्थं वा अल्पकारणार्थं वा मन्त्रस्य उपयोगः न करणीयः। कार्यार्थं यत्र मन्त्रस्य बहु आवश्यकता अस्ति तादृशसमये एव मन्त्रः प्रयोक्तव्यः। अपि च केनापि कारणेन अङ्गवैकल्यं भवति चेत् तदा मन्त्रः व्यर्थः भवति। अतः जागरूकतया मन्त्रस्य उपयोगः करणीयः।
गुरुणा उपदिष्टामन्त्रौ तौ सुभानुमातङ्गौ गुरुं नमस्कृत्य कमपि उद्योगं प्राप्तुं राजधानीं प्रति प्रस्थितौ। मार्गे एका नदी। तां नदीं तीर्त्वा एव राजधानीं प्रति गन्तव्यम्। नाविकः तु अपरस्मिन् तीरे आसीत्। तदा मातङ्गः सुभानुम् एवम् उक्तवान् – तस्मात् तीरात् यः कोऽपि अत्र आगच्छति चेत् नौका अत्र आगच्छति। तावत्पर्यन्तं समयः व्यर्थः। आवाम् मन्त्रं जानीवः किल? तेन मन्त्रेण मत्स्यरूपं धृत्वा नदीं तरावः।
अल्पकार्यार्थं मन्त्रशक्तिः न प्रयोक्तव्या इति गुरोः वचनं विस्मृतं वा? परीक्षार्थमपि एवं न करणीयम् इति उक्तवान् सुभानुः। तदा मातङ्गः नदीतरनम् अल्पकार्यं न। भवान् नौकया एव आगच्छतु। अहं तु मत्स्यरूपेण नदीं तरामि इति उक्तवा मत्स्यरूपेन नदीं तीर्त्वा तीरं प्राप्तवान्।
किञ्चित् समयानन्तरं सुभानुः नौकया एव नदीं तीर्त्वा मातङ्गेन सह पुनः राजधानीं प्रति प्रस्थितः। पादाभ्याम् एव गमनं वहु कष्टकरम् इति मातङ्गः चिन्तितवान्। अतः सः सुभानुं प्रति आवां पक्षिणोः रूपं धृत्वा शीघ्रम् एव राजधानीं गच्छावः। पादाभ्यां गमनेन बहु श्रमः इति उक्तवान्।
सुभानुः न अङ्गीकृतवान्। भवान् बहु भीरुः अविवेकी च इति सुभानुं भर्त्सयन् मातङ्गः अहं शीघ्रं गत्वा राजधान्यां प्रतीक्षां करोमि इति उक्तवा पक्षिरूपेण उड्डयितवान्। आकाशमार्गे किञ्चित् समयम् उड्डीय श्रमपरिहारार्थम् एकस्य वृक्षस्य शाखायाम् उपविष्टावान्। तदा एकः गृध्रः आकाशमार्गे भ्रमन् एनं पक्षिणं दृष्ट्वा पादाभ्यां गृहीत्वा पुनः आकाशे उड्डयितुं प्रवृत्तः।
मातङ्गः तदा मानुषरूपम् आश्रितवान्। गृध्रः मानुषरूपेण परिणमन्तं पक्षिणं दृष्ट्वा भीत्या तं त्यक्तवान्। मातङ्गः आकाशात् गुल्मप्रदेशे पतितवान्। अतः तस्य प्राणापायः न अभवत्। किन्तु तस्य दक्षिणपादः भग्नः। तदा तस्मिन् मार्गे एव आगताः यात्रिकाः मातङ्गं दृष्ट्वा शुश्रूषां कृतवन्तः। कतिपयदिनानाम् अनन्तरं वेदना किञ्चिदिव शान्ता अभवत्। दुःखितः सः गुरोः भैरवानन्दस्य समीपं गत्वा प्रवृत्तं सर्वं वृत्तान्तं निवेदितवान्।
भैर्वानन्दः तं समाश्वास्य पादस्य कृते अनेकप्रकारां चिकित्सां कारितवान्। व्रणः सम्पूर्णतया शान्तः। किन्तु मातङ्गः पादेन ऊनः अभवत्। एतेन अङ्गवैकल्येन पूर्वं गुरुणा उपदिष्टः मन्त्रः व्यर्थः अभवत्। सुभानुः राज्ञः आस्थाने उद्योगं प्राप्य गच्छता कालेन उन्नतस्थानम् अपि प्राप्तवान्।
गुरुः मातङ्गः कथां समाप्य गुरुणा उक्तवान् नियमान् उल्लङ्घ्य मातङ्गः पङ्गुः अभवत्। अपि च मन्त्रेण सिद्धा अपूर्वा शक्तिः अपि नष्टा। सः मातङ्गः अहम् एव। गुरोः विषये यस्य गौरवभावना नास्ति सः पण्डितः अपि तिरस्कारार्हः इति उक्त्वा कुटिरं प्रविष्टवान्।
कथां श्रुत्वा विरूपः ततः प्रभृति कदापि गुरुकुलस्य नियमान् न उल्लङ्घितवान्। सहपाठिनां समीपे गुरोः विडम्बनम् अपि न कृतवान्।