सीमापुरे प्रतापचन्द्रः नाम एकः भूस्वामी आसित्। सः धनिकाः चेदपि महा कृपणः। कृपणत्वेन एव तस्य नाम समीपग्रामेषु सर्वत्र प्रसिद्धम् आसीत्। यदा सः वृद्धः जातः तदा तस्य मनसि पापभीतिः उत्पन्ना। तथैव भगवतः सेवा करणीया इति विचारः अपि आगतः। एकदा एकः सन्यासी सीमापुरम् आगतः। प्रतापचन्द्रः तस्य दर्शनं कृतवान्। तत्र सः सन्यासिनं नमस्कृत्य पृष्टवान् महात्मन्! मरणानन्तरं स्वर्गः प्राप्तव्यः चेत् मया किं किं करणीयम् इति।
तदा सन्यासी उक्तवान् मनः पूर्वकं यथेष्टं दानं करोतु। तेन इष्टं सिध्यति इति। प्रतापचन्द्रः एतत् अङ्गीकृतवान्। सन्यासिनं द्रष्टुम् आगतः कश्चित् ब्राह्मणः भूस्वामिनाः वचनं श्रुतवान् आसीत्। अपरस्मिन् दिने ब्राह्मणः तस्य गृहं गतवान्। तस्मिन् समये एषः भूस्वामि सुखासने उपविष्टः आसीत्। सः कौशेयवस्त्राणि धृतवान् कण्ठे सुवर्णहारः आसीत्। अङ्गुलीषु वज्रसहितानि अङुलीयकानि प्रकाशन्ते! एतत्सर्वं दृष्ट्वा ब्राह्मणः अद्य दानरूपेण अमूल्यं वस्तु किमपि लभ्यते इति चिन्तितवान्।
भूस्वामी ब्राह्मणं दृष्ट्वा आगमनकारणं पृष्टवान्। श्वः आगच्छतु इत्यपि उक्तवान्। अपरस्मिन् दिने ब्राह्मणः पुनः भूस्वामिनः गृहं आगतवान्। तत्र भूस्वामिनं दृष्ट्वा सः चकितः। यतः भूस्वामी इदानीं दरिद्रः इव सामान्यवस्त्राणि धृतवान् आसीत्। शरीरे कुत्रापि सुवर्णस्य नाम अपि नास्ति। सः हसन् उक्तवान् एकः उच्चः अपरः नीचः इति भेदभावः मह्यं सर्वदा न रोचते। अतः अहं सर्वं त्यक्त्वा सामान्यनागरिकजीवनं यापयितुम् इच्छति। इदानीं भवान् अहं च समानौ। अतः भवतः कृते किमपि दातव्यम् इति प्रश्नः एव न उद्भवति इति।
निर्धनः ब्राह्मणः विनयेन उक्तवान् वेषपरिवर्तनं कृतं चेत् सम्पत्तिः अन्यदीया भवति वा? सम्पत्तिः तु भवदीया एव। अतः भवान् अस्मत्तः उत्तमः। किञ्चित् वा दत्वा मां अनुगृह्णातु कृपया इति। भूस्वामी द्विवारं शिरः कम्पयित्वा मौनम् आश्रितवान्। अन्ते श्वः आगच्छतु पश्यामः इति उक्त्वा प्रेषितवान्।
अपरस्मिन् दिने पुनः अपि ब्राह्मणः आगतवान्। भूस्वामिनं दृष्ट्वा पूर्वापेक्षया अधिकं चकितः। यतः एषः भूस्वामी काषायवस्त्राणि धृतवान् अस्ति। ब्राह्मणं दृष्ट्वा भूस्वामी उक्तवान् मया सन्यासः स्वीकृतः। इतःपरं सम्पत्तेः मम च कोऽपि सम्बन्धः नास्ति इति। तर्हि भवता समग्रसम्पत्तिः किं कृता इति ब्राह्मणः पृष्टवान्। मया त्यक्ता सम्पत्तिः मत्पुत्रान् एव प्राप्नोति किल इति उक्तवान् भूस्वामी।
तर्हि भवतः पुत्राणाम् एव समीपे गत्वा किमपि ददातु इति पृच्छामि इति उक्तवान् ब्राह्मणः। भूस्वामी तस्य गमनं निषेधयन् उक्तवान् मम सकाशात् प्राप्तायां सम्पत्तौ एका पैसा अपि तैः अन्येषां कृते न दीयते। तैः एवं प्रतिज्ञा कृता अस्ति। वचनपालाकाः मम पुत्राः। अतः तत्र गमनेन अपि प्रयोजनं नास्ति इति। दरिद्रः ब्राह्मणः दीर्घं निश्वसन् स्वगृहं गतवान्।
इतःपरं कोऽपि याचकाः मम समीपं न आगमिष्यति इति भूस्वामी निश्चितवान्। अतः एव तद्दिने रत्रौ गाढनिद्रां प्राप्तवान् सः कृपणः भूस्वामी!