पुनःपुनः अवचितः अपि वृक्षः यथा पुनः पल्लवितः भवति तथैव विक्रमस्य उत्साहः अपि वर्धते स्म। एवं राजा त्रिविक्रमः वर्धितोत्साहः वेतालं स्कन्धे आरोप्य यथापूर्वं मौनमुद्रया श्मशानाभिमुखं गन्तुं प्रवृत्तः। तदा त्रिविक्रमस्य मौनभङ्गार्थं प्रवृत्तः वेतालः एवं उक्तवान् – भोः महाराज! कष्टे सत्यपि आरब्धं कार्यं समापनीयम् इति भवतः आग्रहः श्लाघनीयः एव। किन्तु दुःसाध्ये अस्मिन् कर्मणि भवन्तं यः प्रेरितवान् सः मित्रस्वरूपी शत्रुः एव इति मम भावना। धैर्यं साहसः बुद्धिः कार्यनौपुण्यम् इत्येते गुणाः यदि भवन्ति तदा मुग्धस्वभावाः अपि दुःसाध्यं कार्यं साधयन्ति एव। उदाहरणार्थं भवतः कृते आग्रहवतः पद्मनाभस्य कथां कथयामि शृणोतु। कथां शृण्वतः गच्छतः भवतः मम भारः अपि न्यूनः इव प्रतिभाति इति। अनन्तरं च कथा आरब्धा।
पद्मनाभनामकः एकः तरुणः कुमुद्वतीनगरे वसति स्म। कुमुद्वतीनगरं विशालस्य पौण्ड्रदेशस्य राजधानी आसीत्। पद्मनाभः आकृत्या रूपेण च सुन्दरः पुरुषः। किन्तु स्वभावेन मुग्धः। श्वेतं सर्वं क्षीरम् इति तस्य भावना। तस्य दृष्ट्या सर्वं सत्यमेव। यः कोऽपि यदि असत्यं वदति तत् सत्यम् इत्येव भावयति स्म। दौर्भाग्येण तस्य बान्धवाः अपि न आसन्।
रत्नभद्रः इति तस्य नगरस्य धनिकः। तस्य पुत्री सुलक्षणा नाम्नी। सा सुन्दरी युवती च। एकदा सा शिबिकाम् आरुह्य नगरमार्गे गच्छति स्म। तदा तत्रैव गच्छतः पद्मनाभस्य दृष्टिः तस्याः उपरि पतिता। तस्याः अनुपमं सौन्दर्यं नेत्रनिमीलनम् अकुर्वन् एव दृष्टवान्। तस्याः रूपलावण्येन मोहितः तत्क्षणम् एव सः निश्चितवान् सुलक्षणया सह मम विवाहः भवेत् एव इति। इदं साध्यं वा असाध्यं वा इति किमपि न चिन्तितवान्।
रत्नभद्रः कुमुद्वतीनगरे एव प्रसिद्धः वणिक्। सः कोटीश्वरः। पद्मनाभः तु अनाथः निर्धनः च। अतः रत्नभद्रस्य पुत्र्या सह विवाहः दुःसाध्यः एव। तथापि पद्मनाभस्य सरले मनसि एतादृशः भेदभावविचारः एव न प्रविष्टः। स्वस्य सुलक्षणायाश्च स्थानं किम् इत्यपि सः न चिन्तितवान्। केवलं तस्याः सौन्दर्येण आकृष्टः आसीत्।
तस्मिन् सायङ्काले पद्मनाभः मित्रस्य रविवर्मणः समीपे सुलक्षणायाः विषयम् उक्तवान्। पद्मनाभस्य विषये रविवर्मणः असूया आसीत्। तत्र कारणं तु सर्वे अपि पद्मनाभः सुन्दरः इति कथयन्ति इत्येव। तथापि असूयां बहिः न प्रदर्शितवान्। किन्तु तम् उपहासस्य पात्रं कृत्वा तृप्तिम् अनुभवितुं समयं निरीक्षते स्म।
सुलक्षणया सह अहं विवाहम् इच्छामि इत्युक्त्वा रविवर्माणं पृष्टवान् – अत्र कः उपायः? कृपया सूचयतु इति। पद्मनाभ! एतत् मङ्गलकरं कार्यम्। शुभस्य शीघ्रम् इति ज्येष्ठाः वदन्ति। विलम्बः न करणीयः। भवादृशः सुन्दरः वरः जामाता यदि भवति तर्हि कस्य सन्तोषः न भवति? रत्नभद्रः अवश्यं सन्तुष्टः भवति। भवान् गत्वा पृच्छतु। रत्नभद्रः सन्तोषेण स्फीतः भवति। सुलक्षणा अपि भवादृशं सुन्दरं पतिं लब्ध्वा धन्या भवतु इति रविवर्मा सूचनां दत्तवान्।
रविवर्मणः वचने या व्यङ्ग्यभावना आसीत् तां ज्ञातुम् असमर्थः पद्मनाभः मित्रस्य वचनेन वर्धितोत्साहः धनिकस्य रत्नभद्रस्य समीपं गत्वा पृष्टवान् – श्रीमन्! मां पश्यतु। भवतः पुत्र्याः अनुरूपः वरः भवितुम् अहम् अर्हो वा न वा इति। यदि अर्हः तर्हि मया सह सुलक्षणायाः विवाहो भवतु इति। रत्नभद्रः यथा महाधनिकः तथा उदारमनस्कः अपि आसीत्। अनाथः पद्मनाभः सरलस्वभाववान् इति सः जानाति स्म। निराकरणम् अकुर्वन् स्मयमानः सः उक्तवान् – मम पुत्रीं दत्वा भवता सह विवाहं करोमि। किन्तु भवता तत्पूर्वम् एकं कार्यम् अवश्यं करणीयम्। तुलापरिमितं सुवर्णम् आनीय मम कृते ददातु इति।
तुलापरिमितं सुवर्णम् आनेतुं सः असमर्थः इत्येव रत्नभद्रस्य भावना। किन्तु पद्मनाभः हताशः न उपविष्टवान्। मित्रस्य रविवर्मणः समीपम् आगत्य उपायं प्रार्थितवान्। सुवर्णं किल अपेक्षितम्? तदर्थं क्लेशः एव नास्ति। कुसीदकस्य सोमनाथस्य समीपं गत्वा ऋणं पृच्छतु। भवान् रत्नभद्रस्य जामाता भविष्यति इति सः यथेष्टम् ऋणं ददाति इति रविवर्मा उक्तवान्।
समनन्तरमेव पद्मनाभः सोमनाथस्य समीपं गत्वा सर्वं स्वकीयवृत्तान्तं निवेद्य प्रार्थितवान् – मम कृते तुलापरिमितं सुवर्णम् ऋणरूपेण ददातु इति। एषः मुग्धः तरुणः। एनं किञ्चित् परिहासपात्रं करोमि इति सोमनाथः चिन्तितवान्। अतः सः पद्मनाभम् उक्तवान् – भवादृशस्य कृते मादृशः सामान्यः कथम् ऋणं दातुं शक्तः? तत्र पश्यतु। नदीतीरे एकः वृक्षः दृश्यते किल? तस्य वृक्षस्य अधः कश्चित् कापालिकः वसति। सः पित्तलम् अयः इत्यादि लोहं सुवर्णरूपेण परिवर्तयति। भवान् तत्र गत्वा पृच्छतु। सः दानरूपेणैव तुलामितं सुवर्णं ददाति इति।
सुवर्नं दानरूपेण लभ्यते इति ज्ञात्वा पद्मनाभस्य महान् सन्तोषः अभवत्। कापालिकस्य समीपं गत्वा प्रार्थितवान् – स्वामिन्! मम कृते तुलामितं सुवर्णं दानरूपेण ददातु इति। सः कापालिकः महान् वञ्चकः आसीत्। लोहपरिवर्तनविद्याम् उपदिशामि इति मुग्धेभ्यः बहु धनम् अपहरति स्म। तथा सङ्गृहीतं सर्वं धनं गौरमुखो नाम चोरः कदाचित् अपहृतवान्। तस्य चोरस्य ग्रहणार्थं कापालिकः आलोचयन् आसीत्। पद्मनाभ! भवान् न केवलं सुन्दरः अपि तु बुद्ध्या अपि चतुरः स्वभावेन अपि धैर्यवान्। अतः भवान् एकं कार्यं करोतु। नगरात् बहिः अरण्ये गौरमुखो नाम महाचोरः वसति। तं मम समीपं भवान् यदि आनयति तदा अवश्यं तुलामितं सुवर्णं दानरूपेण ददामि इति कापालिकः उक्तवान्।
अनन्तरं पद्मनाभः नगरात् बहिः स्थितम् अरण्यं गतवान्। तत्र इतः ततः अन्विष्य गौरमुखस्य प्रदेशं प्रविष्टवान्। तत्र चोरः गौरमुखः आदरेण सम्भाषणं कृत्वा पद्मनाभं पृष्टवान् – वत्स! मम गृहं किमर्थम् आगतवान् इति। पद्मनाभः नैव इत्युक्त्वा स्वविवाहस्य विषयम् उक्तवान् – महाशय! कापालिकः कथितवान् गौरमुखं मम समीपम् आनयतु। अनन्तरं तुलापरिमितं सुवर्णं दानरूपेण दास्यामि इति। अतः कृपया मया सह भवान् आगच्छतु। भवतः आगमनेन मम विवाहः भविष्यति इति।
एषः पद्मनाभः अतीव सरलः इति गौरमुखः ज्ञातवान्। अतः परिहासं कर्तुम् आलोच्य चोरः उक्तवान् – पद्मनाभ! तुलामितेन सुवर्णेन किं प्रयोजनम्? दश तुलमितं सुवर्णं प्राप्तुम् उपायं दर्शयामि। तत्र पश्यतु। तत्पर्वतस्य गुहायाम् एकः कृष्णभूतः वसति। तस्य समीपं गत्वा पृच्छतु। सः भूतः यथेष्टं सुवर्णं ददाति इति। चोरस्य वचनं श्रुत्वा पद्मनाभः सुलक्षणया सह विवाहः जातः इव आत्मानं भावितवान्। बहु सन्तोषेण पर्वतस्य गुहायाः समीपं गतवान्। तत्र गुहायाः पुरतः शिलायां कृष्णभूतः उपविष्टः आसीत्।
वस्तुतः कृष्णभूतः यं कमपि न पीडयति स्म। किन्तु जनाः तस्य भयङ्करं रूपं दृष्ट्वा पलायनं कुर्वन्ति स्म। शिशुः इव निष्कल्मषहृदयः पद्मनाभः निर्भयं कृष्णभूतस्य समीपं गत्वा नमस्कारं कृतवान्। अनन्तरं स्वकीयं वृत्तान्तं सर्वं निवेद्य प्रार्थितवान् – रत्नभद्रस्य पुत्र्या सुलक्षणया सह मम विवाहार्थं भवान् साहाय्यं करोति इति चोरः उक्तवान्। अतः तुलामितं सुवर्णं मम कृते ददातु। यावज्जीवं भवतः उपकारं न विस्मरामि इति। अये! एषः कियान् मुग्धः! मम समीपं निर्भयम् आगतवान्। एतस्य हृदयं सरलम् उदारं च इति कृष्णभूतः पद्मनाभं मनसा श्लाघितवान्। आदरभावं च प्रदर्शितवान्।
कृष्णभूतः गुहां प्रविश्य अग्निः इव ज्वलत् वज्रचतुष्टयं बहिः आनीय तत् दर्शयन् उक्तवान् – वत्स! यदि भवान् इच्छति न केवलं तुलामितं सुवर्णम् अपि तु एतानि वज्राणि अपि दातुम् अहं सिद्धः। एतेषां वज्राणां मौल्यं दश तुलामितसुवर्णेन समानम्। किन्तु एतेषां वज्राणाम् आवश्यकता भवतः नास्ति इति भावयामि। अतः प्रतिनिवृत्य नगरं गच्छतु। रत्नभद्राय सर्वं वृत्तान्तं निवेदयतु। तथापि सः यदि सुवर्णम् इच्छति अत्र आगत्य एतानि वज्राणि नयतु। तुलामितं सुवर्णं वोढुम् अपि भवान् अशक्तः इति।
पद्मनाभः कृष्णभूतस्य कृते नमस्कारं कृत्वा नगरं प्रत्यागतवान्। सर्वं वृत्तान्तं च रत्नभद्राय निवेद्य पृष्टवान् – तानि वज्राणि आनयामि किम् इति। रत्नभद्रः पद्मनाभस्य मनसः सारल्यं धैर्यं च दृष्ट्वा बहु सन्तुष्टः अभवत्। रत्नभद्रः प्रीत्यादरेन पद्मनाभस्य स्कन्धे स्वभुजं प्रसार्य उक्तवान् – वत्स! मम किमपि न अपेक्षितम्। भवान् मम जामाता भवितुम् अर्हः। भवादृशः एव जामाता मम अपेक्षितः। सुलक्षणया सह भवतः विवाहः अवश्यं भविष्यति इति।
वेतालः कथां समापयित्वा – भोः महाराज! त्रिविक्रम! लोकवृत्तान्तनिष्णातः व्यवहारनिपुणः महाधनिकः च रत्नभद्रः। तादृशः परममुग्धाय पद्मनाभाय कथं स्वस्य पुत्रीं दातुं निश्चितवान्? कृष्णभूततः रत्नभद्रः भीतः सन् तथा निश्चयं कृतवान् वा? अपि च पद्मनाभः न केवलं तुलामितं सुवर्णं किन्तु ततः अपि अधिकमूल्यानि वज्राणि आनीय दातुं शक्तः अपि आसीत्। तादृशम् अवकाशम् अपि रत्नभद्रः किमर्थं सार्थकं न कृतवान्? एतेषां संशयानां समाधानं ज्ञात्वा अपि यदि न उत्तरयति भवतः शिरः सहस्रधा भिन्नं भवति इति उक्त्वा तूष्णीम् अभवत्।
राजा त्रिविक्रमः एवम् उक्तवान् – कृष्णभूततः रत्नभद्रः किञ्चित् अपि न भीतः। कृष्णभूतेन दीयमानस्य धनस्य विषये कोटीश्वरस्य तस्य का गणना? यदा पद्मनाभद्वारा भूतस्य वृत्तान्तं ज्ञातवान् तदा रत्नभद्रः भावितवान् कृष्णभूतः मम कृते कामपि हानिं न जनयति। प्रत्युत उपकारम् एव कुर्यात् इति। किन्तु पद्मनाभद्वारा कृष्णभूततः अमूल्यम् एकं तत्वं रत्नभद्रः अवगतवान् – यः गुणवान् बुद्धिमान् कार्ये पटुः कार्यपारगः प्रमाणिकः च सः दरिद्रः अपि धनिकः एव। यः तु अत्र व्यतिरिक्तः सः धनिकः अपि दरिद्रः एव। अतः धीराः पुरुषाः कालान्तरे उन्नतिं प्राप्नुवन्ति एव। पद्मनाभस्य मित्रं कापालिकः चोरः च सर्वे कुटिलबुद्धयः। ते स्वीयदुष्कार्यतः दण्डम् अनुभविष्यन्ति एव इति। एवं कृष्णभूततः सत्यतत्वं जानन् रत्नभद्रः भाविनः जामातुः मुग्धस्वभावं दोषत्वेन न परिगणितवान्। अपि च पद्मनाभः यदि मम जामाता भविष्यति तर्हि तं वाणिज्यव्यवहारे नियोज्य सुलभेन लोकव्यवहारं शिक्षयामि। एवं लोकव्यवहारशिक्षणं न दुष्करम् इति विचिन्त्य रत्नभद्रः पद्मनाभं जामातरं कर्तुं निश्चितवान्।
एवं राज्ञः मौनभङ्गे जाते शीघ्रं एव वेतालः अदृश्यतां गत्वा यथापूर्वं वृक्षस्य शाखायां प्रलम्बमानः आसीत्।