गोविन्दः नाम कश्चित् गृहस्थः आसीत्। सः सरलः साधुस्वभाववान् च। किन्तु तस्य पत्नी राधा धृष्टा चण्डी च। गोविन्दः पत्न्या उक्तं सर्वं शृणोति अनुतिष्ठति च। अतः सा साक्षात् कैकेयी एव अभवत्।
विवाहानन्तरं यदा मातृगृहतः राधा पतिगृहम् आगतवती तदा गोविन्दः केवलं स्वीयं कार्यं करोति स्म। किन्तु पत्न्याः मोहपाशेन बद्धः सः तदा तदा पत्न्याः कार्ये अपि साहाय्यं करोति स्म। राधा तु तस्य कार्ये सायाय्यलेशम् अपि न कृतवती। प्रत्युत स्वीयानि कार्याणि अपि पत्युः शिरसि एव आरोपितवती। गोविन्दः एव अजाः गाः च चारयेत् गृहे जलम् अपि पूरयेत् वस्त्राणि अपि क्षालयेत् गृहम् अपि सम्मार्जयेत् चुल्लीम् अपि ज्वालयेत्। गच्छति काले एतत् सर्वं विवाहितस्य मम मर्तव्यम् एव इति गोविन्दः भावितवान्।
एवं सत्यपि राधा पतिं भर्त्सयति स्म। यदि क्षेत्रे कर्षति गोविन्दः तत्र अपि गत्वा असन्तम् अपि दोषं प्रदर्श्य सा पतिं निन्दति। श्रान्त्या यदि विश्रान्तिं स्वीकरोति “अलसः” इति वदति। कार्यं कर्तुम् इतस्ततः यदि सः गच्छति “केवलम् अटति” इति आक्षिपति। यदि पत्न्या सह सम्भाषणं करोति “वाचालः” इति गर्हति। यदि तूष्णीं तिष्ठति “किं भवान् मूकः वा” इति पृच्छति। कार्यं कृतं चेत् किमर्थं कृतम् इति अकृतं चेत् किमर्थं न कृतम् इति च आक्षिपति। एवं पदे पदे पत्युः दोषोद्घाटनं विना तस्याः अन्यत् कार्यं किमपि न आसीत्।
गोविन्दः तु पत्न्याः भर्त्सनं निन्दनं तर्जनम् आक्षेपं च श्रुत्वापि तूष्णीम् एव कार्यं करोति। किमपि प्रत्युत्तरं न ददाति दतुं न इच्छति च। प्रतिवेशिनः मार्गे अटन्तः जनाः च गोविन्दं दृष्ट्वा हसन्ति स्म। यथापि गोविन्दः न कुप्यति। हसतः तान् वदति – अये! मित्रवर्याः! किमर्थं व्यर्थम् एव द्वाविंशत् दन्तान् अपि लोकाय प्रदर्शयन्ति इति।
एकदा राधा पतिम् उक्तवति – अत्र पश्यतु क्षीरं विकृतिम् आपन्नम्। कार्ये भवतः अश्रद्धा एव अत्र कारणम् इति। एतत् श्रुत्वा आश्चर्येण क्षीरविकृतेः मम च कः अम्बन्धः इति गोविन्दः पृष्टवान्। राधा कोपेन उक्तवती – यदि गोः ऊधः सम्यक् क्षालितं भवति तदा क्षीरं कथं वा विकृतिम् आपद्यते इति।
ऊधः प्रक्षाल्य दौहनं करणीयम् इति भवत्या कदा अपि न उक्तम् इति गोविन्दः उक्तवान्। एतत् अपि किं वक्तव्यम्?! हन्त! एतत् करणीयम् एतत् अकरणीयम् इति प्रतिदिनं सर्वं वक्तुं किं शक्यम्? मूढं भवन्तं यत् अहं परिणीतवती तत् एव मम अपराधः इति राधा उक्तवती।
वाचा किं प्रयोजनम्? मया यत् करणीयं तत् सर्वं एकस्मिन् कागते विलिख्य ददातु। अनन्तरम् अपि यदि प्रमादः भविष्यति तदा मां भर्त्सयतु इति उक्तवान् गोविन्दः। राधा एकैकं कार्यं वक्तुम् आरब्धवती। गोविन्दः लेखितुं प्रवृत्तः। हनूमतः पुच्छम् इव कार्याणाम् आवलिः अपि वर्धिता।
कानिचित् दिनानि अतीतानि। मकरसङ्क्रमणोत्सवः सन्निहितः। गृहं सर्वं स्वच्छीकृतम्। गृहस्य समीपे स्थिते सरोवरे गोविन्दः वस्त्राणि प्रक्षाल्य प्रक्षाल्य निष्पीड्य च स्थापयति स्म। राधा आतपे रज्जौ वस्त्राणि प्रसारयन्ती पतिं भर्त्सयितुम् आरब्धवती – श्वः एव पर्वदिनम्। कार्यं तु पर्वतोपमम् अस्ति। एवं शनैः शनैः यदि कार्यं क्रियते समाप्तिः कदा? भवादृशः अलसः मूर्खः च प्रपञ्चे एव कोऽपि नास्ति इति।
एवं पतिं भर्त्सयन्ती सा निष्फिडितं वस्त्रं स्वीकर्तुं नतवती। तदा तस्याः दक्षिणपादः शवालेन आवृतायां शिलायां निहितः। झटिति एव स्खलन्ती भर्त्सनरता सा सरोवरे पतिता। जले निमज्जन्ती म्रियमाणा अस्त्म् माम् उद्धरतु माम् उद्धरतु इति सा उच्चैः आक्रोशनं कृतवती। सरोवरः आगाधः नास्ति। कण्ठपर्यन्तम् एव जलम् अस्ति। भयं मास्तु इति शनैः उत्तरं दत्तवान् गोविन्दः। अहो! जलूकाः सर्वे रक्तं पिबन्ति। शीघ्रं माम् उद्धरतु इति उच्चैः स्वरेण पुनःपुनः आक्रोशनं कृतवती।
भवतीं उद्धर्तुं मम अवकाशः नास्ति। कागदे लिखितानि कार्याणि बहूनि सन्ति। तानि समापनीयानि। कार्याणाम् आवलौ तु एतत् कार्यं नास्ति एव। यदि संशयः अस्ति कागदम् आनीय आवलिं पठामि। शृणोतु इति उक्त्वा गोविन्दः कागदं गृहतः आनीय पठितुम् आरब्धवान्।
शैत्यात् जलूकेभ्यः च भीता सा कम्पमाना दीनस्वरेण उक्तवती – पत्नी मृता भवतु इति भवान् इच्छति वा? इतः परं तत् कागदं कार्यावलिः इत्यादिकं सर्वं मास्तु। तत् सर्वं एतस्मिन् सरोवरे एव क्षिपतु। भवतः पादौ गृह्णामि। कृपया माम् उद्धरतु।
एवं पुनःपुनः वदतु। भवतु इतःपरं भवदीयं कार्यं भवती एव करोतु। केवलं मदीयं कार्यम् अहं करोमि। एतत् भवती अनुमन्यते वा इति पृष्टवान् गोविन्दः। तथास्तु इति झटिति एव उत्तरं दत्तवती राधा। अनन्तरं गोविन्दः पत्नीं सरोवरतः उद्दृतवान् गृहस्य अन्तः नीतवान् च। ततः परं स्वीयं कार्यं कुर्वती राधा कदापि पतिं न भर्त्सितवती। न वा निन्दितवती।