शठं प्रति शाठ्यम् इति नीतिं परिपालयितुम् इव त्रिविक्रमः पुनः वृक्षसमीपं गतवान्। वर्षाकालः। वायुप्रकोपकारणतः समग्रं वातावरणं भीकरं दृश्यते। किन्तु दृढव्रतः त्रिविक्रमः निश्चलबुद्ध्या वृक्षम् आरुह्य शवं स्कन्धे आरोप्य श्मशानाभिमुखं प्रस्थितः। तदा शवस्थितः वेतालः उक्तवान् महाराज! भवतः श्रमं पश्यतः मम संशयः भवान् स्वभावेन मुग्धः वा? उत भवतः दैवम् एव विपरीतं वा इति। कदाचित् उदाराः अपि कठोराः भवन्ति। भवन्तं यः एतस्मिन् कार्ये नियोजितवान् फले प्राप्ते सः कठोरः न भविष्यति इत्यत्र कः विश्वासः? अत्र उदाहरणरूपेण अहं भीमसिंहनामकस्य महाराजस्य कथां कथयामि। कथां शृण्वन् गच्छन् भवान् प्रयाणजातं श्रमं अपि विस्मरिष्यति।
राजा भीमसिंहः गिरिदुर्गराज्यस्य राजा। तस्मिन् राज्ये रामपुरग्रामस्य पार्श्वे लक्ष्मणपुरनामकः ग्रामः अपि आसीत्। रामपुरस्य अधिकारी भरतः जनहितचिन्तकः। लक्ष्मणपुरस्य अधिकारी गोपालः तु स्वार्थसाधकः। भरतस्य जनप्रियतां दृष्ट्वा गोपालः मनसि एव खेदम् अनुभवति। यथाकथञ्चित् भरतस्य अपमाननं करणीयम् इति सः चिन्तयति स्म। रामपुरं निम्नप्रदेशे अस्ति। तत् परितः यत्र कुत्रापि वृष्टिः भवतु समग्रं रामपुरं जलमग्नं भवति स्म। प्रतिवर्षम् अपि वर्षाकाले एषा समस्या अस्ति एव। समस्या कथं निवारणीया इति भरतः सगम्भीरं चिन्तयति स्म। किन्तु उपायः न स्फुरति!
एकदा वसन्तकाले एकः सन्यासी रामपुरम् आगतवान्। रामपुरस्य समृद्धिं दृष्ट्वा सन्तुष्टः सः उक्तवान् भवतः प्रदेशे वर्षाकाले समीचीना वृष्टिः भवतु। भवन्तः सर्वे एवम् एव सदा प्रसन्नाः जीवन्तु इति। तदा भीतिं प्रकटयन् भरतः उक्तवान् समीचीना वृष्टिः भवतु इत्येवम् आशीर्वादम् न करोतु। यतः वृष्टिश्रवणमात्रेण अस्माकं सर्वेषां भीतिः इति। एवम् उक्त्वा सः वर्षाकाले उत्पद्यमानां ग्रामपरिस्थितिं समग्रं निवेदितवान्। तदा सन्यासी उक्तवान् एवं तर्हि अहं समग्रं ग्रामम् एकवारं सम्यक् परिशीलयितुम् इच्छामि। भवान् अपि मया सह आगच्छतु इति।
भरतः सन्यासिने समग्रं ग्रामं प्रदर्शितवान्। वर्षाकाले केन मार्गेण जलम् आगमिष्यति कथं ग्रामः जलमयः भविष्यति इति विवरणं दत्तवान्। सन्यासी किञ्चित् चिन्तयित्वा उक्तवान् भवतः समस्यायाः परिहारे विशेषकष्टं नास्ति। भवान् भवतः ग्रामं परितः विशालां गभीरां च एकां परिखां खानयतु। तथैव ग्रामसमीपे एकं सरोवरम् अपि खानयतु। सरोवरजलं परिखां गन्तुं यथा शक्नुयात् तथैव परिखाजलं पर्वतप्रदेशं गन्तुं च यथा शक्नुयात् तथा कुल्याव्यवस्थां च करोतु। एतदर्थं सामान्यतः सार्धलक्षरूप्यकात्मकः व्ययः भवेत्। एतत् धनं महाराजतः भवान् प्राप्तुम् अर्हति इति।
सन्यासिनः सूचना भरताय अरोचत। सः एतां योजनां व्यवहारे आनेतुं निश्चितवान्। एकः सन्यासी रामपुरं गत्वा भरतं एकाम् उत्तमां योजनां सूचितवान् इति वार्ता गोपालः ज्ञातवान्। तद्दिने एव सः सन्यासिने लक्ष्मणपुरम् आगन्तुम् आमन्त्रणं प्रेषितवान्। आगतं सन्यासिनं सः निवेदितवान् च महानुभाव! अस्माकं कृते अपि एकम् उपायं सूचयतु येन अस्मदीयाः ग्रामः अपि सुखसम्पन्नः स्यात् इति। लक्ष्मणपुरम् उन्नते स्थले आसीत्। अतः कथमपि प्रवाहभीतिः न आसीत्। तत्रत्याः सर्वे ग्रामवासिनः सुखसम्पन्नाः सन्तः शान्तजीवनं यापयन्ति स्म।
सन्यासी लक्ष्मणपुरं समग्रम् अटित्वा दृष्ट्वा उक्तवान् एतस्य ग्रामस्य जनाः भाग्यशालिनः। न केवलं ग्रामे ग्रामं परितः अपि नारिकेलवृक्षाः यथेष्टं सन्ति। एतेषाम् उपयोगेन बहूनि वस्तूनि निर्मातुं शक्यन्ते। देशविदेशेषु एतेषां वस्तूनां विक्रयणं तु निश्चयेन भविष्यति। अतः एतदनुकूलानि यन्त्रगाराणि भवान् स्थापयतु। व्ययार्थं यानि पञ्चलक्षरूप्यकाणि आवश्यकानि तानि महाराजभीमसिंहतः स्वीकरोतु। एतेन बहूनां जनानां जीवनं सुसम्पन्नं भविष्यति इति। एतम् उपायं श्रुत्वा गोपालः बहु सन्तुष्टः सः सन्यासिने धन्यवादान् समर्पितवान्।
वृष्टिकारणतः ग्रामे जायमानाम् हानिं निवारयितुम् इच्छन् भरतः भीमसिंहं द्रष्टुं निर्गतः। एतत् श्रुत्वा गोपालः अपि महाराजं द्रष्टुं प्रस्थितः। स्वबुद्धिमत्तया अधिकं साहाय्यधनं प्राप्तव्यम् इति चिन्तयन् गोपालः भरतस्य अपेक्षया पूर्वम् एव राजधानीं प्राप्तवान्। तत्र चिरपरिचितं कोषाधिकारिणं दृष्टवान्। कोषाधिकारिणे आगमनकारणं निवेदितवान्। तदा कोषाधिकारी गोपालं पृष्टवान् मित्र! भवतः ग्रामे बहुकालतः नारिकेलवृक्षाः सन्ति एव। इदानीं यन्त्रागारस्थापनयोजना कथम् अकस्मात् स्फुरिता? अत्र किमपि अन्यकारणं स्यात् किल इति।
तथा किमपि नास्ति। मम तु नारिकेलवृक्षाणां वाटिकाः बहवः सन्ति। तेषां वृक्षाणां सदुपयोगः स्स्वीकरणीयः किल? यदि यन्त्रागाराणाम् आरम्भः भविष्यति तर्हि सिद्धानां वस्तूनां क्रेतारः अवश्यं लप्स्यन्ते एव इति उक्तवान् गोपालः। कोषाधिकारी पुनः पृष्टवान् तर्हि एतेन उद्यमेन भवान् अधिकं लाभं सम्पादयितुम् इच्छति। एवं किल? तत्तु सत्यम्। कृतस्य परिश्रमस्य अनुगुणं लाभस्य निरीक्षा स्वीकारः वा अनुचितं न किल? वाणिज्ये एतत् सर्वं सहजम् इति उक्तवान् गोपालः।
भवान् सत्यम् एव उक्तवान्। अतः अहम् अपि एकं योग्यम् उपायं सूचयामि। अस्माकं महाराजः दयालुः इति सर्वे जानन्ति एव। किन्तु महाराजस्य विचारसरणिः किञ्चित् भिन्ना। जनाः यावत् याचन्ते तावत् पूर्णतया न दातव्यम् इति तस्य सिद्धान्तः। अतः भवान् पञ्चलक्षरूप्यकाणि इच्छति चेत् द्वादशलक्षरूप्यकाणि पृच्छतु। तदा भवता षट्लक्षरूप्यकाणि प्राप्यन्ते। मम तु षट्लक्षरूप्यकाणि न अपेक्षितानि। पञ्चलक्षरूप्यकाणि एव पर्याप्तानि। अतः दशलक्षम् एव पृच्छामि।
भवान् मदभिप्रायं न गृहीतवान्। षट्लक्षम् एव प्राप्नोतु। एकलक्षम् अवशिष्यते किल? तत्र अर्धार्धं स्वीकुर्वः इति कोषाधिकारी हसन् उक्तवान्। गोपालः सन्तोषेण कोषाधिकारिणः वचनम् अङ्गीकृतवान्। कोषाधिकारी तम् एकसप्ताहं राजधान्यां स्थातुं सूचितवान्। अहं तु मम ग्रामे यन्त्रगारस्थापनं करिष्यामि। तेन यथेष्टं लाभम् अपि प्राप्स्यामि च। भरतः तु ग्रामीणानाम् उपकारार्थं कार्यं करोति। अधिककीर्तिं च सम्पादयिष्यति। यथाकथञ्चित् तदीया यशः प्राप्तिः निवारणीया इति।
एवं चिन्तयित्वा गोपालः भरतसमीपं गत्वा उक्तवान् मित्र! भवान् तु मम पार्श्वग्रामे एव निवसति। अतः अहम् एकं रहस्यं निवेदयामि। राजानं कश्चित् अधिकं धनं पृच्छति चेत् सः कुपितः भविष्यति। तादृशान् निवारयिष्यति च। किन्तु तस्य अन्यः अपि एकः स्वभावः यत् यः अल्पं धनं पृच्छति तस्मै द्विगुणितं धनं ददाति। एतद्द्वयम् अपि दिनद्वयतः अत्र एव निवसन् अहं ज्ञातवान्। अतः भवान् एकलक्षरूप्यकाणि एव पृच्छतु। तदा लक्षद्वयं प्राप्नोति। व्ययानन्तरम् अपि भवतः समीपे अर्धलक्षम् अवशिश्यते इति।
भरतः किमपि उत्तरं न दत्तवान्। सः मौनं स्थितवान्। गोपालस्य वचनानि तस्मै न अरोचन्त। किन्तु धनप्रार्थनसमये न्यूनम् एव प्रष्टव्यम् इति सः निश्चयं कृतवान्। चतुर्णाम् दिनानाम् अनन्तरं महाराजः विभिन्नप्रदेशेभ्यः आगतान् ग्रामाधिकारिणः सर्वान् आहूतवान्। स्वकीयाम् अपेक्षां प्रकटयन्तु इति ग्रामाधिकारिणः आदिष्टवान्। ग्रामाधिकारिणः क्रमशः स्वकीयाम् आवश्यकतां निवेदितवन्तः। प्रार्थितस्य अर्धाशं दातुम् एव राजा अनुमतिं ददाति स्म। भरतः एतत् सर्वं परिशीलयन् आसीत्।
कश्चित् ग्रामाधिकारी स्वग्रामं परितः परिखां खानयितुं त्रिलक्षरूप्यकाणि पृष्टवान्। किन्तु राजा तस्मै सार्धलक्षरूप्यकाणि एव दत्तवान्। यदा भरतसिंहस्य पर्यायाः आगतः तदा सः राजानं निवेदितवान् महाराज! मम ग्रामं परितः परिखा खाननीया अस्ति। तदर्थं पञ्चाशत्सस्ररूप्यकाणि अपेक्षितानि इति। राजा आश्चर्येण पृष्टवान् तावदेव? इदमिदानीम् अहम् एकस्य ग्रामाधिकारिणः कृते परिखनिर्माणार्थं सार्धलक्षरूप्यकाणि दत्तवान्। भवान् तु केवलं पञ्चाशत्सहस्राणि पृच्छति। भवदीयः ग्रामः आकारेण अल्पः वा इति।
प्रभो! अस्माकं ग्रामः न तथा अल्पाकारकः। वयम् आवश्यकतापूरणार्थम् पूर्णतया भवन्तम् एव आश्रयितुं न इच्छामः। वस्तुतः अस्माकं कृते अपि सार्धलक्षरूप्यकाणि आवश्यकानि। वयं ग्रामवासिनः सर्वे श्रमदानं कुर्मः। तथैव पञ्चाशत् सहस्राणि ग्रामवासिनाः दानरूपेण स्वयं यच्छन्ति। अस्माकं राज्ये अस्मद्ग्रामसदृशाः ग्रामाः बहवः सन्ति। सर्वे अधिकाधिकं धनसाहाय्यं पृच्छन्ति चेत् राजा भवान् कुतः वा दद्यात्? यदि ग्रामाः स्वयं समर्थाः भवन्ति तर्हि राज्यस्य प्रगतिः साधयितुं शक्यते। प्रजानाम् उपरि करभारः अपि न्यूनः भविष्यति। किन्तु वयम् इदानीम् अपि आर्थिकदृष्ट्या स्वयंपूर्णाः न। यथाशक्ति वयं सङ्ग्रहं कुर्मः। तथापि अधिकं धनम् आवश्यकं भविष्यति। तदर्थम् अहं भवन्तं पृष्टवान् इति उक्तवान् भरतः।
भरतस्य वचनेन राजा बहु सन्तुष्टः। सः उक्तवान् भवतः ग्रामः आदर्शग्रामः। भवान् अपि सर्वेषाम् अधिकारिणाम् आदर्शः भवितुम् अर्हति। भवतः ग्रामार्थं द्विलक्षरूप्यकाणि ददामि इति। अनन्तरं महाराजः अन्यान् अधिकारिणः उद्दिश्य उक्तवान् भवतां ग्रामाणां विषये इदानीं मदीयः अभिप्रायः परिवर्तितः अस्ति। अहम् इदानीं कस्मै अपि आर्थिकसाहाय्यं न करोमि। अल्पे एव काले सर्वत्र एकम् अधिकारिणं प्रेषयिष्यामि। सः एव भवदीयाम् आवाश्यकतां परिशील्य निर्णयं स्वीकरिष्यति। तदनुगुणम् अहं धनसाहाय्यं करिष्यामि। किन्तु सर्वेषां स्मरणे तिष्ठतु यत् अहं साहाय्यरूपेण यत् धनं ददामि तत् ऋणत्वेन। ऋणमुक्तिं यावत् ग्रामस्य जनाः प्रतिगृहं शतं रूप्यकाणिदद्युः इति।
एतं निर्णयं श्रुत्वा सर्वे ग्रामाधिकारिणः हाहाकारम् कृतवन्तः। किन्तु राजा एतत् सर्वम् अविगणय्य सिंहासनात् उत्थाय अन्तःपुरं प्रविष्टवान्।
वेतालः एवं कथां समाप्य उक्तवान् राजन्! धर्मात्मरूपेण प्रसिद्धस्य महाराजस्य एषः व्यवहारः उचितः वा? राजा रामपुरस्य आधिकारिणे भरताय द्विलक्षरूप्यकाणि पारितोषिकरूपेण दत्तवान्। किन्तु अन्येभ्यः ऋणरूपेण अपि धनं दातुं सः न सिद्धः। एषः व्यवहारः महाराजस्य कृपणत्वं द्योतयति किल? वस्तुतः महाराजस्य व्यवहारे अकस्मात् परिवर्तनं यत् दृष्टं तत्र किं कारणम्? एतस्य सन्देहस्य उत्तरं जानन् अपि यदि भवान् तूष्णीं तिष्ठति तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्।
तदा त्रिविक्रमः उक्तवान् महाराजस्य व्यवहारे यत् परिवर्तनम् अकस्मात् दृष्टं तत्र तदीयं कृपणत्वं कारणं न। भरतस्य वचनेन महाराजः सत्यं ज्ञातवान्। बहवः ग्रामाधिकारिणः केनापि व्याजेन अधिकम् आर्थिकसाहाय्यं स्वीकृत्य स्वार्थाय तस्य धनस्य उपयोगं कुर्वन्ति स्म। एतेन प्रजानाम् उपरि अधिकः करभारः स्थाप्यते स्म। भरतः यथा स्वग्रामे कृतवान् तथैव सर्वे आचरन्ति चेत् समग्रस्य देशस्य हितं सिध्यति स्म। ग्रामस्य आवश्यकताः यावच्छक्यं ग्रामीणैः एव यदि पूर्यन्ते तर्हि महाराजस्य उपरि भारः न्यूनः भविष्यति। तदा एव राजा नवीनाः अभिवृद्धियोजनाः रूपयितुं शक्तः भविष्यति। एतत् सत्यं सर्वे ग्रामाधिकारिणः जानन्तु इति दृष्ट्या एव राजा धनसाहाय्यविषये तादृशान् कठिननियमान् उक्तवान्।
एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवे स्थितः वेतालः अदृश्य भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्।