माधवपुरस्य भूस्वामिनः गृहे गोविन्दः सेवकः आसीत्। गोविन्दस्य पिता अपि तस्मिन् एव गृहे सेवकः आसीत्। गोविन्दस्य बाल्ये पिता मृतः। मातरं विना समीपबन्धुः तस्य कोऽपि नास्ति। अतः दयालुः भूस्वामी एव गोविन्दं पोषितवान्। तथैव पितुः स्थाने एव गोविन्दं नियोजितवान्। गोविन्दः युवकः अभवत्। भूस्वामी गोविन्दं पुत्रम् इव वात्सल्येन पोषयति स्म।
एकदा भूस्वामी गोविन्दम् एकं कार्यम् उक्तवान्। आगामिपूर्णिमायां पार्श्वग्रामस्य भूस्वामिनः पुत्रेण सह मम पुत्र्याः विवाहस्य निश्चयकार्यक्रमः चिन्तितः आसीत्। कारणान्तरेण सः कार्यक्रमः अग्रे नीतः। एतं विषयं पार्श्वग्रामस्य भूस्वामिनं सूचयतु इति उक्त्वा भूस्वामी नगरं गतः।
गोविन्दः यदा प्रस्थातुम् उद्युक्तः तदा कार्यभारी किमपि अन्यत् कार्यं आदिष्टवान्। ततः स्वामिनी यजमानस्य पुत्री च अन्यत् कार्यम् उक्तवत्यौ। सूर्यास्तपर्यन्तम् अपि एतादृशकार्याणि एव आपतितानि। पार्श्वग्रामस्य मार्गः बहु निम्नोन्नतः वक्रः च आसीत्। रात्रेः पूर्वं ग्रामतः प्रत्यागमनं बहु कष्टम्। किन्तु यजमानस्य कार्यं तत् अवश्यं करणीयम् एव। अतः गोविन्दः किं करणीयम् इति चिन्तयन् आसीत्।
तदा वृद्धः सेवकः उक्तवान् – गमनकाले एव रात्रिः भविष्यति। रात्रौ सर्पादिजन्तवः सञ्चरन्ति। अतः इदानीं न गच्छतु। कार्यक्रमार्थम् इतोऽपि चतुर्णां दिनानां अवकाशः अस्ति। श्वः अनारोग्यव्याजेन विरामं स्वीकृत्य ग्रामं गत्वा आगच्छतु। अद्य रात्रौ एव यजमानः पृच्छति चेत् गत्वा आगतवान् इति वदतु। गोविन्दः अपि एतम् उपायम् अङ्गीकृतवान्। रात्रौ यजमानः आगत्य पृष्टवान् गोविन्द! पार्श्वग्रामं गत्वा आगतवान् वा?
आम् गत्वा आगतवान् इति उक्तवान् गोविन्दः। यजमानः पुनः पृष्टवान् वार्तां यजमानसमीपे उक्तवान् वा? अथवा अन्यस्य कस्यचित् समीपे? भूस्वामी एव गृहे आसीत्। तस्य समीपे एव उक्तवान्। एतां वार्ता श्रुत्वा भूस्वामी किम् उक्तवान्? विशेषं किमपि न उक्तवान्। तथैव अस्तु इति अङ्गीकृतवान्। भूस्वामी पुनः पृष्टवान् गोविन्द! मार्गे नद्यां प्रवाहः आसीत् इति श्रुतवान् अहम्। भवान् कथं गतवान्? गोविन्दः शीघ्रम् एव उक्तवान् श्रीमन्! अहं बाहुतरणं जानमि किल? गमनसमये बाहुतरणं कृतवान्। आगमनसमये नौकया आगतवान्।
भूस्वामी गोविन्दस्य उत्तरं श्रुत्वा शिरः इतस्ततः चालयति स्म। गोविन्दः चिन्तितवान् मम उत्तरतः यजमानस्य संशयः न उत्पन्नः एव इति। यजमानः पुनः पृष्टवान् भूस्वामिनः पुत्रेण ह्यः तस्य मातुलगृहतः स्वगृहम् आगन्तव्यम् आसीत्। सः आगतवान् वा? आं श्रीमन्! पुत्रः गृहे एव आसीत् सः कदा प्रत्यागतवान् इति अहं न जानामि इति गोविन्दः सलीलम् उक्तवान्। अस्तु तस्य गृहस्य पुरतः एकः आम्रवृक्षः आसीत्। सः वृक्षः इदानीं पुष्पितः वा?
गोविन्दः सधैर्यम् उत्तराणि वदन् आसीत् किल? गोविन्दः इदानीं चिन्तितवान् इदानीं वसन्तसमयः। अतः बहुशः वृक्षः पुष्पितः एव स्यात् इति। अतः गोविन्दः उक्तवान् इदमिदानीं किञ्चित् पुष्पितः। एकस्य अनन्तरम् अपरम् असत्यं वक्तव्यम् आपतितम् इति कृत्वा गोविन्दस्य मनसि एव भीतिः। कार्यव्याजेन ततः निर्गन्तुं सः चिन्तितवान्। तदा भूस्वामी तम् आहूय पृष्टवान् गोविन्द! तस्य गृहे कृष्णा गौः अस्वस्था आसीत् किल? सा इदानीं कथम् अस्ति?
किं वक्तव्यम् इति गोविन्दः झटिति न ज्ञातवान्। भूस्वामी गोः चिकित्सां तु करोति एव। एवं चेत् गौः स्वस्था अपि स्यात् एव इति चिन्तयित्वा गोविन्दः उक्तवान् कृष्णा गौः वा? सा इदानीं स्वस्था एव। भूस्वामी गोविन्दस्य परीक्षां कर्तुम् इच्छति स्म। अतः सः मन्दं हसन् पृष्टवान् गोविन्द! तत्र भोजनं कृतवान् किल? भोजनं न कृतवान् इति वदामि चेत् भूस्वामिनः अपमाननं कृतमिव भवति इति चिन्तयित्वा गोविन्दः उक्तवान् बहु समीचीनं भोजनं परिवेषितवन्तः श्रीमन् इति।
पदे पदे असत्यम् उक्त्वा व्याकुलः गोविन्दः यजमानं पृष्टवन् अहं गच्छामि वा? तीक्ष्णदृष्ट्या गोविन्दस्य मुखं पश्यन् भूस्वामी उक्तवान् अरे गोविन्द! कदा आरभ्य एवम् असत्यं वक्तुम् अभ्यस्तवान् इति। उक्तम् असत्यम् सर्वम् अपि यजमानः ज्ञातवान् एव इति गोविन्दः आलोचितवान्। अतः सः इदानीं भीत्या कम्पते स्म।
भूस्वामी मन्दं हसन् शान्तस्वरेण उक्तवान् केनापि कारणेन गन्तुं न शक्तं चेत् तथैव वक्तव्यम् आसीत्। भवन्तं श्वः प्रेषयामि स्म। सत्यं वक्तुं भीतः भवान् असत्यम् उक्तवान्। एकस्य असत्यस्य गोपनार्थम् असत्यपरम्परायाः सृष्टिः कृतवान्। इदानीं वस्तुस्थितिं ज्ञातवान् किल इति। गोविन्दः लज्जया कम्पमानः शिरः नमयित्वा तूष्णीं स्थितवान्।
अद्य सायंकाले नगरे सः भूस्वामी मिलितवान्। अहं मुहूर्तपरिवर्तनविषये तं निवेदितवान्। किन्तु भवान् सः गृहे एव आसीत् इति असत्यम् उक्तवान्। तदानीम् एव भवान् असत्यं वदति इति अहं ज्ञातवान्। नद्यां प्रवाहः अस्ति इत्यपि असत्यम् उक्तवान् भवान्। वस्तुतः सा नदी शुष्का अस्तीति भवान् न जानाति एव किल इति पृष्टवान् यजमानः।
न हि श्रीमन्! बहुकालतः तस्यां दिशि अहं न गतवान् इति दीनस्वरेण उक्तवान् गोविन्दः। यजमानः उच्चैः हसन् उक्तवान् तस्य पुत्रः इदानीम् अपि गृहं न प्रत्यागतवान्। तस्य गृहस्य पुरतः आम्रवृक्षः अपि नास्ति। केवलम् एकः निम्बवृक्षः अस्ति। एवमेव कृष्णवर्णायाः गोः विषयः अपि कल्पितः एव। तस्य गृहे किदृशी गौः अस्ति इति अहमपि न जानामि इति। गोविन्दः अवनतं शिरः न उन्नीतवान् एव।
यजमानः आसन्दतः उत्तिष्ठन् उक्तवान् अस्तु इतःपरम् असत्यं न वदतु उक्तम् असत्यं कदाचित् प्रकाशितं भविष्यति एव इति न विस्मरतु। क्षाम्यन्तु भवन्तः अत्रत्यकार्याणां समापने एव विलम्बः सञ्जातः। सत्यं वदामि चेत् भवन्तः कुपिताः भवन्ति इति चिन्तयित्वा अहम् असत्यम् उक्तवान्। इतःपरं जन्मनि कदापि असत्यं न वदामि इति गोविन्दः नमस्कृत्य उक्तवान्।
नगरात् आनीतं मधुरं भक्ष्यं गोविन्दस्य हस्ते दत्वा वात्सल्यपूर्णेन स्वरेण यजमानः उक्तवान् अस्तु एतत् स्वामिन्याः हस्ते ददातु भवान् अपि किञ्चित् खादतु इति।