वेतालः कति कथाः जानाति इति परीक्षां कर्तुम् एव त्रिविक्रमः पुनः वृक्षस्य समीपं गतवान्। शाखायां लम्बमानं शवं स्कन्धे आरोपितवान्। मौनं श्मशानमार्गम् अनुसृतवान्। तदा शवे स्थितः वेतालः अये महाराज! अस्मिन् अर्धरात्रे भयङ्करे श्मशानमार्गे गच्छतः भवतः श्रमः व्यर्थः अपि स्यात्। तदा यदि कुपितः अपि तेन किं प्रयोजमन्? कृतस्य कार्यस्य फलम् एतत् इति मत्वा समाधानं प्राप्तव्यम् भवति। श्रावणनामकस्य कवेः गतिः एवम् एव अभवत्। तस्य एव कथां वदामि इति कथाम् आरब्धवान्।
राजा चन्द्रपालः काम्बोजं परिपालयति स्म। सः दयालुः। तस्य आस्थाने बहवः कवयः विद्वांसः च आसन्। प्रतिदिनं सायं तत्र कविगोष्टी प्रचलति स्म। राजा गोष्टीरसम् आस्वादयन् स्नतोषम् अनुभवति स्म। एकदा श्रावणः नाम कविः राजाश्रयं सम्प्रार्थ्य तत्र आगतवान्। चन्द्रपालस्य विषये आशुगीतं रचयित्वा गीतवान्। तत् श्रुत्वा राजा सन्तुष्टः। आस्थाने श्रावणस्य उत्तमम् उद्योगं परिकल्पितवान्।
सायंकाले राजसभायां कवयः काव्यं रचयन्तः गायन्तः परस्परं चर्चां कुर्वन्ति स्म। राजा एतत्सर्वम् उत्साहेन शृणोति स्म। किन्तु किमपि न वदति न पृच्छति च। नवीनः श्रावणः कवीनां काव्येषु अनेकान् दोषान् ज्ञातवान्। प्रथमपरिचये एव खण्डनं दोषप्रदर्शनं वा न उचितम् इति चिन्तयित्वा श्रावणः तूष्णीम् उपविशति स्म। किन्तु अनन्तरकाले दोषान् ज्ञात्वा अपि मौनं स्थातुं न शक्तवान्। प्रतिक्रिया कथं प्रदर्शनीया इति सः बहु चिन्तितवान्।
कवीनां दोषान् ज्ञात्वा अपि राजा चन्द्रपालः तूष्णीम् उपविशति किल? अत्र किं कारणम् इति श्रावणस्य चिन्ता। विशालहृदयः चन्द्रपालः पण्डितान् निराश्रयान् कर्तुं न इच्छन् एवं व्यवहरति किम्? संशयपरिहारार्थं श्रावणः पण्डितानाम् आर्थिक परिस्थितिं विचारितवान्। द्वित्रान् विना अन्ये सर्वे धनिकाः एव। राजाश्रयं विना अपि ते सर्वे सुखेन जीवितुं समर्थाः।
तदा श्रावणः चिन्तितवान्। अहम् एव कवीनां गुणदोषाणां विमर्शं कर्तुं न शक्नोमि वा? अथवा चन्द्रपालः एव कवितां श्रुण्वन् लोपदोषान् ज्ञातुम् असमर्थः वा? कस्य दोषः? राजा तु स्वयं न कविः। पण्डितानां चर्चायां स्वयं भागम् अपि न गृह्णाति। केवलं श्रवणेन आनन्दम् अनुभवति। अतः चन्द्रपालस्य काव्यज्ञानम् एव अल्पम् इति। एवं स्थिते स्वकाव्यज्ञानस्य प्रदर्शनेन अपि प्रयोजनं नास्ति।
तन्मध्ये शङ्करानन्दः नाम पण्डितश्रेष्टः काशीतः स्वदेशं प्रस्थितः काम्बोजम् आगतवान्। शङ्करानन्दः एकदिनं काम्बोजे तिष्ठति इति श्रावणः ज्ञातवान्। श्रावणः शङ्करानन्दस्य समीपं गत्वा स्वकवितां श्रावयित्वा उक्तवान् – अहम् इदानीं महाराजस्य आस्थाने कविः अस्मि। काव्यक्षेत्रे अभिवृद्धिम् इच्छामि। एतदर्थं मदीयं ज्ञानं पर्याप्तं वा? इतोऽपि सम्पादनीयं वा? एतद्विषये भवदीयः अमूल्यः अभिप्रायः सूचनीयः इति।
कविः शङ्करानन्दः हसन् उक्तवान् – भवान् राजाश्रये अस्ति वा? तर्हि एतत् भवतः भाग्यम् एव। एषः राजाश्रयः भवतः कविताशक्तेः पुरस्कारः न। कविप्रतिभा तु भवतः अस्ति एव। किन्तु प्रयत्नः न पर्याप्तः। यदि भवान् समर्थः कविः भवितुम् इच्छति तर्हि भवता इतोऽपि परिश्रमः करणीयः इति।
श्रावणः शङ्करानन्दं नमस्कृत्य कृतज्ञतावचनानि उक्तवान्। अनन्तरं महामन्त्रिणः विशालाक्षस्य समीपं गत्वा उक्तवान् – श्रीमन् मदीयेन किञ्चित् पाण्डित्येन एव तुष्टः राजा माम् आस्थाने कविः इति नियोजितवान्। एतदर्थम् अहं कृतज्ञः। किन्तु इदानीम् अहं विशेषाध्ययनार्थं काशीं गन्तुम् इच्छामि। कृपया अनुमतिं ददातु इति। मन्त्री श्रावणस्य मुखं परीक्ष्य उक्तवान् भवान् लोकव्यवहारज्ञः विवेकी च। एवम् स्थिते काशीगमनविषये आश्रयदातारं राजानम् अपृष्ट्वा मां किमर्थं पृच्छति इति।
तदा श्रावणः किञ्चित् हसन् उक्तवान् श्रीमन् एतत् अहं जानामि एव। महाराजस्य आदरं प्रीतिं च विस्मृत्य न व्यवहरामि। अहं तादृशः कृतघ्नः न इति। सः अनन्तरं राजसमीपं गत्वा काशीगमनं निवेदितवान्। महाराजस्य अनुमतिं प्राप्य ततः निर्गतवान्।
एवं कथां समाप्य वेतालः उक्तवान् – राजन् आशुकवितां श्रुत्वा तुष्टः राजा श्रावणस्य कृते आस्थाने स्थानं दत्तवान्। एवं सुलभतया लब्धं स्थानं त्यक्त्वा श्रावणः निर्गतवान्। तर्हि श्रावणः अविवेकी वा? एवमेव शङ्करानन्दस्य वचनेन श्रावनः सामान्य कविः इति अपि ज्ञायते। मन्त्री विशालाक्षः एतादृशस्य सामान्यकवेः प्रशंसां किमर्थं कृतवान्? एवम् प्रशंसां कुर्वतः विशालाक्षस्य आशयः कः? एतेषां प्रश्नानाम् उत्तरं ज्ञात्वा अपि न वदति चेत् भवतः शिरः सहस्रधा भग्नं भवेत् इति।
तदा त्रिविक्रमः एवम् उक्तवान् – श्रावणः विवेकी इत्यत्र न सन्देहः। अत्र कथायाम् आलोचनीयम्। श्रावणः उत्तमः कविः वा इति। राजाश्रये यत् स्थानं लब्धं तत् भाग्येन एव न तु कवितागुणैः इति शङ्करानन्दः उक्तवान्। श्रावणः ज्ञानम् अभिवृद्धिं च अपेक्षते। सः गुणदोषविमर्शकं मार्गदर्शकम् अपेक्षते स्म। राजास्थाने तादृशः कोऽपि न आसीत्। राजातु श्रावणस्य नीरसकवित्वं श्रुत्वा एव सन्तुष्टः भवति। एतादृशे राजास्थाने स्थित्वा श्रावणः उत्तमः कविः भवितुं कदापि न शक्नोति स्म। अतः सः अन्यत्र गन्तुं निश्चितवान्।
राजा चन्द्रपालः न तथा बुद्धिमान् इति श्रावणः ज्ञातवान् एव। एवं चेत् राज्यव्यवस्थायां सूत्रधारः मन्त्री विशालाक्षः एव इति श्रावणस्य विचारः। अतः एव सः प्रथमं विशालाक्षं दृष्ट्वा अनुज्ञां प्रार्थितवान्। एतादृशसूक्ष्मचिन्तकस्य प्रशंसां यदि विशालाक्षः करोति तर्हि तत्र किम् आश्चर्यम्?
आश्रयदातारं राजानम् अपृष्ट्वा मां किमर्थम् अनुज्ञां पृच्छति इति विशालाक्षस्य प्रश्ने एका सूचना अपि अस्ति। राज्ञः चन्द्रपालस्य अज्ञानं कुत्रापि बहिः न प्रकाशयतु इति। सूक्ष्मग्राही श्रावणः तत् जानाति एव। अतः सह् वदति – “महाराजस्य आदरं प्रीतिं च कथं विस्मरामि? अहं तादृशः कृतघ्नः न” इति।
राजा चन्द्रपालः अतीव बुद्धिमान् न स्यात् किन्तु गुणी उदारी च। एतं विशयं विशालाक्षः जानाति श्रावणः अपि जानाति।
एवं राज्ञः वचनसमाप्तेः समनन्तरम् एव वेतालः शवसहितः अदृश्यः भूत्वा वृक्षस्य शाखाम् आलम्बितवान्।