मौसुल्देशस्य महाराजः कदाचित् देशपर्यटनं कुर्वन् एकस्मिन् लघुनगरे स्वकीयं सेनाशिबिरं स्थापितवान्। उषः काले राजशिबिरस्य पुरतः कश्चन कोलाहलः समुत्पन्नः। महाराजवसतितः पलायमानः एकः चोरः राजपरिवारीयेन केनचित् दृष्टः आसीत्। निमेषणमात्रेण सः चोरः अदृश्य जातः अपि। कोलाहलकारणतः महाराजः जागरितः। वृत्तान्तं सर्वं श्रुत्वा सः अधिकारिणः आदिष्टवान् बहिः रक्षणव्यवस्था सुदृढा अस्ति। अतः चोरः बहिः धावितुं न शक्नोति। अन्तः एव कुत्रापि निलीनः अस्ति। झटिति तम् अन्विश्य मम पुरतः आनयन्तु इति।
अधिकारिणः शिबिरस्य प्रतिकोणम् अपि अन्विष्टवन्तः। किन्तु तैः कुत्रापि चोरः न दृष्टः। तावति काले सूर्योदयः जातः। शिबिरे प्रवृत्तेन कोलाहलेन कुतूहलिनः बहवः नगरवासिनः तत्र सम्मिलिताः। महाराजः इदानीं क्रोधतप्तः। तेन त्वरया राजधानी गन्तव्या अस्ति। तन्मध्ये एषा घटना। चोरः कुत्रापि न दृश्यते!
एतन्मध्ये अकस्मात् एकस्य प्राकोष्ठस्य कोणतः उच्चैः क्षुतध्वनिः श्रुतः। सेनाधिकारिणः त्वरया तां दिशं गतवन्तः। तत्र एकत्र कोणे शिबिरनिर्माणे उपयुज्यमानानाम् आच्छादकानां मध्ये चोरः दृष्टः। अधिकारिणः तं ततः आकृष्य मारयितुं प्रयत्ननं कृतवन्तः। तदा चोरः उक्तावान् भोः भोः तिष्ठन्तु तावत्। अहं महाराजम् एकान्ते किमपि निवेदयितुम् इच्छामि इति।
एकः सेनाधिकारी महाराजसमीपं धावन् गत्वा उक्तवान् महाराज चोरः बन्धितः अस्ति। सः एकान्ते भवन्तं किमपि निवेदयितुम् इच्छति। चोरः मम समीपे वार्तालापं कर्तुम् इच्छति वा? अस्तु नाम तम् अत्र आनयन्तु इति राजा उक्तवान्। अधिकारिणः चोरं राजसमीपम् आनीतवन्तः। चोरः महाराजं नमस्कृत्य उक्तवान् प्रभो वस्तुतः भवता मम सम्माननं करणीयम्। भवदीयाः अधिकारिणः तु मां मारयितुम् उद्युक्ताः सन्ति इति।
भवतः सम्माननं करणीयम्? राजन् भवतः अधिकारिणः माम् अन्विष्यन्तः सर्वत्र गत्वा अपि असफलाः एव। भवान् राजधानीं गन्तुं सिद्धतां कुर्वन् अस्ति। शिबिरस्य पुरतः नगरवासिनः सर्वे जनाः सम्मिलिताः सन्ति। ते जनाः भवतः सेनाधिकारिणां बुद्धिमत्तायाः सामर्थ्यस्य च विषये किं चिन्तयन्तः स्युः इति उक्त्वा चोरः किञ्चित् स्थितवान्। अग्रे वदतु इति संज्ञां कृतवान् महाराजः।
चोरः सेनाशिबिरातः बहिः न गतवान्। अन्तः एव कुत्रापि अस्ति इति सर्वे नागरिकाः जानन्ति एव। एतादृशम् अपि चोरं भवदीयाः अधिकारिणः ग्रहीतुम् असमर्थाः जाताः चेत् जनानां दृष्ट्या ते अप्रयोजकाः भविष्यन्ति। तेन महाराजस्य भवतः अपि अगौरवम्! अतः अहम् उच्चैः क्षुतशब्दं कृतवान्। मम जीवनस्य अपेक्ष्यया महाराजस्य भवतः गौरवस्य रक्षणं मम दृष्ट्या प्रधानम् इति उक्तवान् चोरः।
भवतः वचनम् सत्यम् इति वदन् महाराजः सम्मतिं सूचितवान्। अनन्तरं नागरिकाणां पुरतः एव चोरस्य हस्तौ शृङ्खलया बन्धितवान्। दद्दिने एव महाराजः तं नगरं त्यक्त्वा राजधानीं प्रस्थितः। मार्गे सः चिन्तितवान् चोरः यथा चिन्तयति तथैव मदीयाः सैनिकाः अपि यदि चिन्तयेयुः तर्हि समीचीनम् अभविष्यत् इति।
किञ्चित्दूरगमनानन्तरं महाराजः चोरां बन्धमुक्तं कर्तुम् आज्ञापितवान्। किञ्चित् धनं दत्त्वा चोरम् अभिनन्दनपूर्वकं प्रेषितवान्।